________________
कथाकोशः [९०२५]
१३३ अत्र भावागुरागरक्ताख्यानम्-अवन्तीदेशोज्जयिन्यां राजा धर्मपालो, राज्ञी धर्मश्रीः, श्रेष्ठी सागरदत्तः, पत्नी सुभद्रा, पुत्रो नागदत्तः । सुभद्रासमुद्रदत्तयोः पुत्री प्रियङ्गश्रीः। सा नागदत्तेन ३ परिणीता प्रियङ्गश्रीः। तस्या मैथुनिको नागसेनो वैरं गृहीत्वा स्थितः । एकदोपौषितं धर्मानुरागयुक्तं चैत्यालये कायोत्सर्गे स्थितं नागदत्तमालोक्य नागसेनेन निजं हारं तस्य पादोपरि धृत्वा अयं . ६ चौर इति पूत्कृतम् । एतदाकालोक्य तलारेण राज्ञः कथितम्-न चौर इति । विजानतापि राज्ञा मारणीयो भणितः । नागदत्तशिरश्छेदार्थं खङ्गो यो वाहितः स हारस्तस्य कण्ठे पुष्पमालासहितो बभूव देवैः साधुकारितश्च। तदतिशयदर्शनाद्धर्मपालनागदत्तौ मुनी जातौ । बहवो जिनधर्मरताश्च ॥
[९०५२४] प्रेमानुरागरक्ताख्यानम् ।
१२ विनीतदेशे साकेतानगर्यां राजा सुवर्णवर्मा, राज्ञी सुवर्णश्रीः, इभ्यः श्रेष्ठी सुमित्रो जिनशासनप्रेमानुरागरक्तः पर्वरात्रौ निजगृहे कायोत्सर्गेण स्थितः । एकदा देवेन परीक्षणार्थं स्त्र्यादिहरणेन परी- १५ क्षितो न चलितः । देवो गगनगामिनी विद्यां दत्त्वा गतः । तदतिशयाल्लोका मुनयः श्रावका जाताः ॥
१८
[९० *२५] मज्जानुरक्ताख्यानम् । उज्जयिन्यां राजा रागबुद्धिः, सार्थवाहजिनदत्तवसुमित्रौ जिनधर्मे मज्जानुरागौ श्रावको वाणिज्यार्थमुत्तरापथं गतौ । अवसीरमालवरपर्वतयोर्मध्ये बिलवत्यटव्यां सार्थे चौरैहीते अटवीं प्रविष्टौ २१ तौ दिङ्मोहे तु जाते जिनदत्तवसुमित्रौ जिनधर्मे मज्जानुरागरक्तौ संन्यासे स्थितौ। सोमशर्मा ब्राह्मणो ऽपि तयोः पावें धर्ममाकर्ण्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org