________________
श्री- प्रभाचन्द्र-कृतः
कुदेवभक्तिं परित्यज्य निश्चला जिनधर्मे भव । येन तव सप्तदिनमध्ये गर्भसंभूतिर्भवतीति । ततस्तुष्टा दृढा जिनधर्मे सा स्थिता | कतिपय३ दिनेः सुकोशलनामा पुत्रो जातः । तन्मुखं दृष्ट्वा श्रेष्ठी नयंधरमुनिसमीपे मुनिरभूत् । मां बालपुत्रिकां मुक्त्वा गत इति मत्वा सिद्धार्थ मुनेरुपरि जयावती अत्यर्थं कुपिता । मुनिना च किमस्य तपो ६ दातुं युक्तमिति कोपाद्गृहे प्रवेशो निषिद्धः । सुकोशलेन क्रमेण वृद्धि गतेन द्वात्रिंशद्भार्याः परिणीताः । एकदा प्रासादोपरि भूमिस्थितेन जननीधात्रीभार्यासमन्वितेन नगरशोभां पश्यता दिग्देशान्तरं विह९ त्यागतरचर्यायां प्रविष्टः सिद्धार्थमुनिमजानता तेन पृष्टः । को ऽयम् । जयावत्या कुपितयोक्तम् — रंकः कोऽप्ययं याति । सुकोशलेनोक्तम्नायं रङ्कः सर्वोत्तमलक्षणयुक्तत्वात् । ततः सुनन्दाधात्र्या श्रेष्ठिनी १२ भणिता । तव कुलप्रभोः परममुनेश्च निन्दावचनं वक्तुं न युक्तम् । ततः श्रेष्ठिन्या सा भणिता - मौनेन तिष्ठ । अक्षिसंज्ञया च सा वारिता । प्रतारितो ऽहमनयेति चिन्तयन्सुकोशलः सूपकारेण भणितः -- भोजन१५ वेला संजातेति । ततो जननीधात्रीभार्याभिर्भणितो भोजनं क्रियतामिति । तेनोक्तम् - मयास्योत्तमपुरुषस्य स्वरूपं ज्ञात्वा भोक्तव्यमिति । ततः सुनन्दया यथार्थे पूर्ववृत्तान्ते कथिते सुकोशलो मुनिसमीपे १८ गतो निजभार्यायाः सप्रभाया गर्भस्थितपुत्रस्य श्रेष्ठपट्टे बन्धयित्वा
सिद्धार्थसमीपे मुनिर्जातः । आर्तेन मृत्वा जयावती मगधदेशे मौदगिल्लगिरी व्याघ्री त्रिपुत्रा जाता । तौ द्वौ मुनी विहरमाणौ २१ मौदगिल्लगिरी चतुर्मासोपवासेन योगं गृहीत्वा योगावसाने चर्यायां प्रविष्टौ तां व्याघ्रीमालोक्य संन्यासेन स्थिती तया क्रमेण भक्षितौ सर्वार्थसिद्धादुत्पन्नौ सुकोशलहस्ते लाञ्छन मालोक्य व्याघ्री २४ जातिस्मरी जाता । हा त्यक्तजिनधर्माः प्राणिनः संसारे परिभ्रमन्तः पुत्रादीनपि भक्षयन्तीति संसारनिन्दां कृत्वा संन्यासेन मृत्वा सौधर्मं गता ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org