________________
कथाकोशः [५६] तदाकर्ण्य सक्ता तत्सन्मुखमागच्छन्ती प्रासादात्पतिता मृता संसार दीर्घ गता ॥
[५] मानुषमांसासक्त इत्यादि । [ माणुसमंसपसत्तो कंपिल्लवदी तदेव भीमो वि।। रज्जं भट्ठो णट्ठो मदो य पच्छा गदो गिरयं ॥१३५७]
अस्य कथा-काम्पिल्यनगरे राजा भीमो, राज्ञी सोमश्रीः, पुत्रो । भीमदासः । कुलक्रमेण नन्दीश्वराष्टदिनेषु जीवघातनिषिद्धघोषणायां दापितायां तेन भीमेन जिह्वेन्द्रियासक्तेन सूपकारो मांसं याचितः। तेन च श्मशानान्मृतं बालकमानीय संस्कृत्य दत्तम् । तेन च तुष्टेन । पृष्टः-किं कारणमिदं मृष्टम् । लब्ध्वा ऽभयेन सत्यं कथितम् । तेनेदमेव मे देहीत्युक्तम् । ततः सूपकारो लडुकेन प्रपञ्चेन नित्यनित्यमेकैकं बालं मारयित्वा ददाति । जनेन ज्ञात्वा मन्त्रि[ण:] कुमारेण कथितम्। ततो भीमदासो राज्ये प्रतिष्ठापितः । भीमः सूपकारेण सह निःसारितः । विन्ध्यमध्ये सूपकारोऽपि तेन भक्षितः । मेखलपुरे गतो वासुदेवेन मारितो नरकं गतः ।।
[१६] चोरो बली सुवेग इत्यादि । [चोरो वि तह सुवेगो महिलारूवम्मि रत्तदिदीओ। विद्धो सरेण अच्छीसु मदो णिरयं च संपत्तो ।।१३५८।।]
१८ अस्य कथा-भद्रिलपुरे इभो धनपतिः, भार्या धनश्रीः, पुत्रो भर्तृमित्रस्तस्य भार्या देवदत्ता । एकदा भर्तृमित्रादयो द्वात्रिंशदीश्वरवणिक्पूत्राः सभार्याः क्रीडितुमुद्यानं गताः। तत्र वसन्तसेनस्य २१ श्रेष्ठिपुत्रस्योत्सङ्गे मस्तकं धृत्वा वसन्तमालाभार्या सुप्ता। तथा भर्तृमित्रस्य देवदत्ता वसन्तमालया वसन्तसेनो भणित:-चूतमञ्जरी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org