________________
( १३६ ) अभिधानराजेन्द्रः ।
संतकम्म
ईसा पूरित्ता, नपुंसगंतो असंखवासासु । पल्लासंखियभागे - पूरिए इथिवेयस्स ॥ २६ ॥
'ईसाणे'त्ति – ईशानदेवलोके उक्तप्रकारेण नपुंसक वेदमापूर्य नपुंसकवेदस्योत्कृष्टं प्रवेशसंचयं कृत्वा ततः संख्ये वर्षायुष्केषु मध्ये समुत्पद्य पुनरसंख्येयवर्षायुष्केषु मध्ये समुत्पन्नः । तत्र च तेन संक्लिष्टेन भूत्वा पल्योपमा संख्येयभागमात्रेण कालेन पूरिते स्त्रीवेदे बन्धेन नपुंसकवेददलिकसंक्रमेण च प्रभूतमापूरिते स्त्रीवेदे सति तदानीं तस्य वेदस्योत्कृष्टं प्रदेशसत्कर्म भवति ।
पुरिसस्स पुरिससंकम-पएसउक्कस्स सामिगस्सेव । इत्थी जं पुरा समयं संपक्खित्ता हवइ ताहे ॥ ३० ॥ 'पुरिसस्स'त्ति - पुरुषस्य पुरुषवेदस्योत्कृष्टं प्रदेशसत्कर्म उत्कृष्टपुरुषवेदसंक्रमस्वामिन एव वेदितव्यम्, पतदुक्तं भवति य एवोत्कृष्ट पुरुषवेदसंक्रमस्वामी स एवोत्कृष्टपुरुषयेदप्रदेश सत्कर्मस्वाम्यपि वेदितव्यः । नवरं यं समयं यस्मि - न् समये स्त्रीवेदं पुरुषवेदे संप्रक्षेप्ता भवति संक्रमयति ' ताहे ' तदानीं पुरुषवेदस्योत्कृष्ट प्रदेशसत्कर्मस्वामी ।
तस्सेव उ संजलखा, पुरिसाइकमेण सव्वसंकोभे । चउरुवसमित्तु खिष्पं, रागंते सायउच्च जसा ॥ ३१ ॥ 'तस्सेव'न्ति-य एव पुरुषवेदोत्कृष्ट प्रदेश सत्कर्म स्वामी तस्यैव संज्वलनाश्चत्वारः क्रोधादयः क्रमेण पुरुषवेदादिसत्कदलिक सर्वसंक्षोभे उत्कृष्टप्रदेशसत्कर्मणो भवन्ति । इयमंत्र भावना-य एव पुरुषवेदोत्कृष्ट प्रदेश सत्कर्मस्वामी यदा पुरुपवेदं सर्वसंक्रमेण संज्वलनक्रोधे संक्रमयति तदा संज्वलनक्रोधोत्कृष्टप्रदेश सत्कर्मस्वामी । स एव यदा संज्वलनक्रोधं सर्वसंक्रमेण माने संक्रमयति तदा संज्वलनमानोस्कृष्ट प्रदेशसत्कर्मस्वामी । स एव संज्वलनमानं सर्वसंक्रमेण संज्वलनमायायां संक्रमयति तदा संज्वलन - मायोत्कृष्टप्रदेश सत्कर्मस्वामी । स एव यदा सेज्वलनमायां सर्वसंक्रमेण संज्वलनलोभ संक्रमयति तदा संज्वलनलोभोत्कृष्ट प्रदेशसत्कर्मस्वामी । तथा चतुरो वारान् मोहनीयमुपशमय्य गुणितकर्माशः शीघ्रं क्षपणायोत्थितस्तस्य सूक्ष्म संपराय गुणस्थानकचरमसमये वर्तमानस्य सातावेदनीयोगत्रयशः कीर्तीनामुत्कृष्टं प्रदेशसत्कर्म । यस्मादेतासु प्रकृतिषु श्रेण्यामारूढः सन् गुणसंक्रमेण प्रभूतान्यशुभकृतिदलिकानि संक्रमयति । ततः सूक्ष्म सम्परायचरमसमये पतासामुत्कृष्टं प्रदेशसत्कर्म प्राप्यते । उक्तं च--" चउरुवसामिय मोहं, जसुच्चसायाण सुहुमखवगंते । जं असुभपगइदलिया-ण, संकमो होइ एयासु ॥ १ ॥ "
देवनिरिया उगाणं, जोगुकस्सेहिं जेट्ठगद्धाए ।
बद्धाणि ताव जावं, पढमे समए उदित्राणि ॥ ३२ ॥ 'देवनिरियाउगां' ति - देवनारकायुषोरुत्कृष्टैर्योगैरुत्कृष्ट्या च बन्धाऽद्धया द्वयोः सतोस्तावदुत्कृष्ट प्रदेशसत्कर्म प्राप्यते, यावत्प्रथमे समये उदीर्णे उदयप्राप्ते भवतः । किमुक्तं भवति — बन्धादारभ्योदय प्रथमसमयं यावद्देवनारकायुषोरक्लमकारेण द्वयोरुत्कृष्टुं प्रदेशसत्कर्म भवति ।
Jain Education International
For Private
संतकम्म
सेसाउगाणि नियगे-सु चेव आगम्म पुव्वकोडीए । सायबहुलस्स अचिरा, बंधते जाव नो बड्डे ॥ ३३ ॥ 'सेसाउगाणि 'ति शेषायुषी - तिर्यङ्मनुष्यायुषी । 'पुव्वकोडीए' ति पूर्वकोट्यो पलक्षिते पूर्वकोटिप्रमाणे उत्कृष्टया बन्धाऽद्धया उत्कृष्टयोंगैर्वद्धे । बद्धा च निजकेषु भवेषु निजनिजभवे समागत्य, सातबहुलः सन् ते श्रायुषी यथायोगमनुभवति । सुखितस्य हि न भूयांस आयुःपुङ्गलाः परिसन्तीति कृत्वा सातग्रहणं कृतम् । ततोऽचिरात् बन्धान्ते इति उत्पत्तिसमयादूर्ध्वमन्तर्मुहूर्त्त मात्रमेव स्थित्वा मर्तुकामो जातः सन् उत्कृष्टया बन्धाऽड्या उत्कृष्टैश्व योगेरन्यत् पारभविकं समानजातीयं मनुष्यो मनुष्यायुः तिर्यङ् च तिर्यगाथुर्यध्नाति । ततो बन्धान्तसमये यावन्नाद्याप्यपवर्तयति तावन्तस्य सातबहुलस्य मनुष्यस्य सतो मनुष्यायुषः तिरश्चः (च) सतस्तिर्यगायुष उत्कृष्टं प्रदेशसत्कर्म भवति । यतस्तस्य तदानीं स्वभवायुः किञ्चिदूनं परभवायुश्च समानजातीयं परिपूर्णलिकमस्तीति कृत्वा, बन्धान्तरं चायुर्वेद्यमानं द्वितीये समयेऽपवर्त्तयिष्यति, ततः उक्कं बन्धान्ते इति ।
पूरित्तु पुव्वकोडी, पुडुत्तनारगदुगस्स बंधते । एवं पल्लतिगंते, वेउब्वियसेसनवगस्मि ॥ ३४ ॥ 'पूरितु' चि-पूर्व कोटीपृथक्त्वं पूर्वकोटीसप्तकं यावत् संक्लिष्टाध्यवसायवशेन नरकद्विकं नरकगतिनर कानुपूर्वीलक्षणं भूयोभूय आपूर्य बन्धेन निचितं कृत्वा नरकाभिमुखो बन्धान्तसमये नरकद्विकस्योत्कृष्ट प्रदेशसत्कर्मस्वामी । तथा एवम् अनेनैव प्रकारेण पूर्वकोटिपृथक्त्वं यावत् भोगभूमिषु मध्ये पल्योपमत्रयं च यावद्विशुद्धाध्यवसायवशेन वैक्रियैकादशकात् नरकद्विकेऽपनीते शेषे यद्वैक्रियनवकं देवद्विकं वैक्रिय सप्तकं चेत्यर्थः । तत् बन्धेनापूर्य देवत्वाभिमुखस्तासां देवद्विकवैक्रियसतकरूपाणां नवप्रकृतीनामुत्कृष्ट प्रदेश सत्कर्मस्वामी ।
तमतमगो सव्वल, सम्मत्तं लभिय सव्वचिरमद्धं । पूरित्ता मणुयदुगं, स वज्जरिसहं सबंधते ।। ३५ । 'तमतमगो' ति-तमस्तमगः सप्तमपृथ्वीनारकः । सर्वलघुअतिक्षिप्रं जन्मानन्तरमन्तर्मुहूर्ते गते सतीत्यर्थः । सम्यक्त्वं लब्ध्वा ।' सवचिरम' ति श्रतिदीर्घ कालं यावत् सम्यक्त्वमनुपालयन् मनुष्यद्विके वजर्षभनाराचसंहननं च बन्धेनापूर्य यतोऽनन्तरसमये मिथ्यात्वं यास्यति तस्मिन् समये बन्धाऽद्धाचरमभूते तयोर्मनुष्य द्विकवज्रर्षभनाराच संहननयोरुत्कृष्टुं प्रदेशसत्कर्म भवति ।
सम्मद्दिधुिवाणं, वत्ती सुदहीसर्य चउक्खुत्तो । उवसामइत्तु मोहं, खवेंतगे नियगबंधंते ।। ३६ ॥
' सम्महिडि ' सि-याः प्रकृतयः सम्यग्दृष्टीनां बन्धमाश्रिस्य भुषाः पश्चेन्द्रियजातिसमचतुरस्र संस्थानपरा घातोच्छ्वासप्रशस्त विहायोगतित्रसबादपर्याप्तप्रत्येक सुखरसुभगादेयरूपण प्रादश तास द्वात्रिंशदधिक सागरोपमाणां शतं यावद्वन्धे. नोपचितानां चतुः कृत्बः चतुरो वारान् मोहनीयं चोपशमथ्य । मोहनीयं हि उपशमयन् प्रभूतानि दलिकानि गुणसंक्रमेण
Personal Use Only
www.jainelibrary.org