________________
यवहार
पते श्रनन्तरोक्तस्वरूपा अष्टौ कार्यकारिणो दुर्व्यवहारिणस्तस्मिन् गुणे तस्मिन्विवक्षिते काले तगरायामासीरन् यैः कृता व्यवहारा श्रन्येषु राज्येषु क्षोभ्यन्ते ।
( २३ ) अभिधानराजेन्द्रः ।
दुर्व्यवहारिणामिह परलोके च फलमाहइहलाए य अकित्ती, परलोए दुग्गती धुवा तेर्सि । गॉखाए जिणंदा, जे ववहारं ववहरंति ॥ ३५६ ॥ ये जिनेन्द्राणामनाशया व्यवहारं व्यवहरन्ति तेषामिह - लोके अकीर्तिः, परलोके भुवा दुर्गतिः । तेण न बहुस्सुतो वी, होड़ पमाणं अणायकारी उ । नाएण ववहरंतो, होइ पमाणं जहा उ इमे ।। ३५७ ॥ यत एवं दुर्व्यहारिण इहलोके अपकीर्तिः परलोके दुर्गतिस्तेन - कारणेन बहुश्रुतोऽप्यन्यायकारी न भवति प्रमागम् । न्यायेन पुनर्व्यवहरन् भवति प्रमाणम्, यथा-इमे-वदयमाणाः तगरायां तस्यैवाऽऽचार्यस्याष्टौ शिष्याः । तानेवाह
·
कित्तेहि समित्तं वीरं सिवकोगे च श्रजासं । अरहनग-धम्मत्तग-खंदिल - गोविंद दत्तं च ॥ ३५८ ॥ कीर्त्तय- प्रशंसय सुध्यवहारकारितया पुष्पमित्रम् १, वीरम् २, शिवकोष्ठकम् ३, श्रार्याशम् ४, अर्हन्तकम् ५, धर्मान्वगम ६, स्कन्दिलम् ७, गोपेन्द्रदत्तं च
एते उ कज्जकारी, तगराए आसि तम्मि उ जुगम्मि । जेहि कया बवहारा, अक्खोन्या अमरजेसु ॥ ३५६ ॥ अनन्तरोदिताः तस्मिन् युगे तस्मिन्काले कार्यकारिणः सुव्यवहारिणः तगरायामासीरन्, यैः कृता व्यवहारा अक्षोभ्या वाकया श्रन्यराज्येषु ।
(११) सुव्यवहारिणामिह परलोके च फलमाहइह लोगम्मि य कित्ती, परलोगे सोगती धुवा तेसिं । आणाऍ जिणिंदाणं, जे ववहारं ववहरंति । ३६० । ये जिनेन्द्राणामाशया व्यवहारं व्यवहरन्ति तेषामिह लोके कीर्त्तिः परलोके सुगतिः ध्रुवा ।
कैरिसगो ववहारी, आयरियस्स य जुगप्पहाणस्स । जेण सकासोग्गहियं, परिवाडीहिं तिहि असेसं ॥ ३६१ | कीदृशो ननु व्यवहारी भवति ? एवं शिष्येण प्रश्ने कृते सूरिराह-येन युगप्रधानस्याचार्यस्य सकाशे- समीपे तिसृभिः परिपाटीभिरशेषं श्रुतं व्यवहारिकमवगृहीतम् - ता एव परिपाटीराद्दसूर्य (ग) परायणं पढमं, बिइयं पडुब्भेदितं ।
तइयं च निरवसेसं, जति सुज्झति गाहगे || ३६२ ॥ प्रथमं सूचक पारायणम् । अर्थपरिसमाप्त्या पदच्छेदेन सूत्रोच्चारणसंहितेति भावार्थः । द्वितीयं पदोद्भेदकम् - पारा
Jain Education International
पदविभागपदार्थमात्र कथनपरम्, विग्रहफला द्वितीया परिपाटीति भावः । तृतीयं पारायणम्-निरवशेषं चालना - प्रत्यवस्थानात्मिका तृतीया परिपाटीत्यर्थः । एवं श्रुते यदि शङ्का भवति तर्हि ग्राहकः - श्राचार्यः शोधयति परीक्षते इत्यर्थः । कथमिति चेदुच्यते- तिसृभिः परिपाटीभिः श्रुतेऽपि
बबहार
व्यवहारादिके प्रन्धे सूरिणा स विचारणीयः । किं सम्यक गृहीतं न वा । गृहीतेऽपि पुनः परीक्षणीयः । किं व्यवहारी अव्यवहारी वा । तत्र यदि व्यवहारी तर्हि योग्यः । अथाऽव्यवहारी अयोग्यः । अथवा ग्राहको नाम शिष्यः स यदि ति सृभिः परिपाटीभिः शुद्ध्यति भावतो निःशेषसूत्रार्थपारगोभवति, ततः स व्यवहारीक्रियते ।
एतदेव व्याख्यानद्वयं विवरीबुराह - गाहगो आयरिओ उ, पुच्छइ सो जाणि विसमठाखाणि। as निम्ती तहियं, तस्स हिययं तु तो सुज्मे ॥ ३६३ ग्राहकः श्राचार्यः प्राहयतीति ग्राहक इति व्युत्पतेः, स यानि विषमाणि स्थानानि पृच्छति, तत्र यदि निर्वहति । किमुक्तं भवति तस्य हृदयं सम्यगभिप्रायं जानाति ततः शुद्ध्यति व्यवहर्तुं व्यवहारकरणयोग्यः । द्वितीयं व्याख्यानमाह
हव गाहगो सीसो, तिहि परिवाडीहि जेण निस्सेसे । गहियं गुणियं अवधा-रियं च सो होड़ ववहारी ॥ ३६४|| अथवा ग्राहको नाम शिष्यः, गृह्णातीति ग्राहकः इति व्युत्पत्तेर्येन तिसृभिः परिपाटीभिर्निर्विशेषं व्यवहारादिकं गृहीतं प्रथमतः, पश्चाद् गुणितमनेकवारमभ्यस्तीकृतम्, श्रवधारितं तात्पर्यग्रहणतो हृदये विश्रामितं स व्यवहारी । पारायणे सम्मत्ते, थिरपरिवाडी पुणेो उ संविग्गे । जो निग्ग वितिष्पो, गुरूहि सो होइ बवहारी ॥ ३६५॥ पारायणे सूचकादिलक्षणे त्रिविधे समाप्तेऽपि पुनर्यः संविने संविग्नसमीपे स्थिरपरिपाटिरभूद्, यश्च गुरुभिर्वितीर्षोऽनुज्ञातः सन् निर्गतो विहारक्रमेण स भवति व्यवहारी न शेषः । तथा चाह
परिणीय - मंदधम्मो, जो निग्गतो अप्पणो सकम्मेहिं । न हुसो होइ पमाणं, असमत्तो देसनिग्गमणे ॥ ३६६॥ श्रात्मनः परेषां च प्रतिकूलः - प्रत्यनीकः, धम्र्मे मन्दो मन्दधर्म्मः, राजदन्तादिदर्शनात् धर्म्मशब्दस्य परनिपातः, संयमे शिथिल इत्यर्थः । तथा यः श्रात्मनः स्वकर्म्मभिः स्वम्यापारैर्निर्गतो विहारक्रमेण न तु गुरुभिरनुज्ञातः, स ( नडु ) नैव भवति प्रमाणमसमाप्तश्च भवति देशनिर्गमनेन देशेषु विहारक्रमकरणे |
आयरियादेसाधा - रिएण अत्थे गुखियखरिएन । सो संघमज्झयारे, व हरियव्वं अलिस्साणं ॥ ३६७ ॥ यत एव विक्षेपदोषास्तस्मात् संघमध्यकारे कारशब्दोऽत्र रूपमात्रे संघमध्ये व्यवहर्तव्यम्, अर्थेन किं विशिष्टेनेत्याहश्राचार्यादेशात् श्राचार्यकथनादवधारितेन संप्रदायागतत्वमावेदितम्, तथा गुणितेन - अनेकशः परावर्तितेन अक्षरितेन कस्य लक्षणतः स्थिरतमा अवस्थितसारेण । एवंभूतेनाप्यर्थेन व्यवहर्त्तव्यमनिश्रया रागद्वेषाकरणेन नान्यथा, अर्थस्य तत्वतः अक्षरितत्वानुपपत्तेः ।
आयरियणासो, धारिऍण सच्छंदबुद्धिरइएसं । सच्चितखेतमीसे, जो ववहरते ण सो धो ॥ ३६८॥
For Private Personal Use Only
www.jainelibrary.org