________________
ममबुद्धि
क्षणं प्रक्रीड्य तत्रागा-त्स्वगेहे तच्चतुष्टयम् ॥ १०२ ॥ तं दृष्ट्रा सप्रियो राजा, प्रीत आख्यादहा सुतः । वधूश्व मे द्विगुणिता, वनदेव्या प्रसन्नया ॥ १०३ ॥ सकलेऽपि पुरे हा महोत्सवचीकरत् । तेषां चतुर्णामध्ये घयो कालः कियानपि ॥ १०४ ॥ अथ तत्र पुरे मोह - विलयाSSख्ये सुकानने । सूरिः प्रबोधको नाम, ज्ञानवान् समवासरत् ॥ १०५ ॥ अथ लोका नरेन्द्राऽऽद्या, वन्दनायै मुनीशितुः । निर्ययुर्भगवांस्तेभ्य इति चक्रे सुदेशनाम् ॥ १०६ ॥ शल्यं कामाः विषं कामाः, कामा आशीविषोपमाः । कामार्थनापरा जीवा. कामा यान्ति दुर्गति ॥ १०७ ॥ तच्छृण्वतोर्गुरोर्वाक्यं, तयोर्देवीसुपर्वणोः ।
(६७ ) अभिधानराजेन्द्रः ।
मोहजाले प्रविध्वस्तं, जाता सम्यक्त्ववासना ॥ १०८ ॥ अत्रान्तरे तपोहान् कृष्णाऽणुसञ्चयेः । निर्गतैर्भीषणाssकारा, घटितैका नितम्बिनी ॥ १०६ ॥ सा च भागवतं तेजो- सहन्ती पर्षदो बहिः । गत्वा परामुखीभूयाऽ-वतस्थे दुःस्थिताऽऽशया ॥ ११० ॥ अथोत्थायावदद् देवः, सप्रियो भगवन्नहम् । कथमस्मान्महापापान्मुच्ये प्रोचे मुनीश्वरः ॥ १११ ॥ नायं भो भवतोदषः, किं त्वस्याः पापयोषितः । काऽसाविति गुरुः प्राहामृतकिरा गिरा ॥ ११२ ॥ भौ ! विषय (तृष्णेयं, दुर्जया त्रिदशैरपि । रजनीव तमिस्रस्य सर्वदोषततेः पदम् ॥ ११३ ॥ शुद्धस्फटिकसङ्काशौ, स्वरूपेण युवां पुनः । एव सर्वदोषास कारणत्वेन संस्थिता ॥ ११४ ॥ इह स्वानुमशक्रेति दूरमेणा स्थिताऽधुना । भवन्तौ मत्समीपाच, निर्गच्छन्ती प्रतीक्षते ॥ ११५ ॥ तौ प्रोचतुः कदा स्वामिन्!, मोक्षो नो भविताऽनया । गुरुः प्राऽऽह भवे नात्र, परं भावी भवान्तरे ॥ ११६ ॥ किन्तु सम्यक्त्वमाहात्म्या नात्यन्तं नो विवाधिका । प्रतिपन्नं ततस्ताभ्यां सम्यक्त्वं मोक्षसौख्यदम् ॥ ११७ ॥ ऋजुराट् प्रगुणा देवी, स मुग्धोऽकुटिला तथा । अथो विज्ञापयामासु-गुरुं स्वस्वविडम्वनाम् ॥ ११८ ॥ अत्रान्तरे तदङ्गेभ्यो, निर्गतैः परमाणुभिः । घटितं वर्णतः श्वेतं, डिम्भमेकमदम्भकम् ॥ ११६ ॥ रक्षितानि मया सूर्य बुवासमिति बोकी । पश्यद्गुरोर्मुखाम्भोजे, सर्वेषां पुरतः स्थितम् ॥१२०॥ युग्मम् । द्वितीयं कृष्णवर्णाभं डिम्भे तदनु निर्ययी। ततो जातं महाकृष्ण, डिम्भरूपं तृतीयकम् ॥ १२१ ॥ श्राहत्य तच्च शुक्लेन, वर्द्धमानं निवारितम् । ततो द्वे अपि ते कृष्णे, निर्गते गुरुपर्षदः ॥ १२२ ॥ गुरुः प्रोवाच भो भद्राः !, न दोषो वोऽत्र कश्चन । अज्ञानपापाभिधयो कि त्यसी कृष्णडिम्भयोः ॥ १२३ ॥ तथाहियत्र चेदिदमशानं युष्मदेहाद्विनिर्गतम् ।
"
"
Jain Education International
एतदेव समस्तस्य दोषवृन्दस्य कारणम् ॥ १२४ ॥ अनेन वर्त्तमानेन शरीरे जन्तवो यतः कार्याकार्य न जानन्ति, गभ्यांगस्याऽऽदिकं तथा ॥ १२५ ॥ ततः पापं निवन्ति दुःखदन्दोलिदायकम् ।
यत्तु पूर्व खितं दम्भे तदार्जवमुदाहृतम् ॥ १२६ ॥
मज्झमबुद्धि
अज्ञानात् वर्तमानं हि पापं वोऽवार्थताऽमुना । रक्षितानि मया धूप-मत पंवेदमान्यत ॥ १२७ ॥
यतः
धन्यानामार्जवं येषामेतचेतसि वर्तते । अज्ञानादाचरन्तोऽपि, पापं ते स्वल्पपातकाः ॥ १२८ ॥ तदेवंविधभावानां भद्राणां युज्यतेऽधुना ।
ज्ञानपापे निर्द्धय, सम्यग् धर्मनिषेवणम् ॥ १२६ ॥ उपादेयो हि संसारे, धर्म एव बुधः सदा । विशुद्ध मुये सर्व यतोऽन्यद् दुःखकारणम् ॥ १३० ॥ अनित्यः प्रियसंयोगः, ईर्ष्याशोकाऽऽदिसङ्कुलः । अनित्यं पचने चापि कुत्सिताऽऽचरणाऽस्पदम् ॥ १३२॥ अनित्यं सर्वमेवेह भवे धार्द्धितरङ्गवत् ।
अतो वदत किं युक्ता, क्यचिदास्था विवेकिनाम् ॥ १३२ ॥ श्रुत्वेति राज्ये संस्थाप्य शुभाऽऽचाराविधं सुतम् । प्रावाजीरभूपालो, जायापुत्रवधूयुतः ॥ १३३ ॥ ततस्ते कृष्णरूपे द्वे, डिम्भे तूर्ण पलायिते । शुक्ररूपं पुनर्द्विम्भं प्रविएं तनुषु क्षणात् ॥ १३४ ॥ कालशेन ततधिले सभार्ये विचिन्तितम् । पश्याहो धन्यता मीषां यैः प्राप्तं व्रतमाईतम् ॥ १३५ ॥ वयं तु देवभावेन व्यर्थ केना 55 वञ्चिताः। यद्वा सम्यक्त्वसंप्राप्त्या, सुधन्या वयमप्यहो ॥ १३६ ॥ सहर्षावथ तौ सूरेः, प्रणम्य चरणद्वयम् । तेनानुशिष्ट स्वस्थानं भातां देवदम्पती ॥ १३७ ॥ इदं पुत्र ! मया तुभ्यं कथितं मिथुनद्वयम् । संदिग्धेऽर्थे हि तत् काल - विलम्बो गुणभाजनम् ॥ १३८ ॥ यदादिशति मामम्बा, कर्त्ताऽहं तत्तथैव हि । इति जल्पन्मुदा मध्यः प्रपेदे जननीवचः ॥ १३६ ॥ बालोऽप्यथ स्वमित्रेण, मात्राऽकुशलमालया । अधिष्ठितोऽभवद्गाढ-मकृत्य करणाऽऽदतः ॥ १४० ॥ कुविन्दहुम्बमातङ्ग- जातीयास्वपि तद्वशः । अतिलीथेन नारीषु प्रापत निरन्तरम् ॥ १४१ ॥ ततश्च गतलज्जोऽयं, पापिष्ठः कुलदूषणः । एवं स निन्द्यते लोकै-र्न च पापान्निवर्तते ॥ १४२ ॥ अथ निन्दापरे लोके, स्नेहविवद्यमानसः । लोकापवादभीरुस्तं मध्यबुद्धिरभाषत ॥ १४३ ॥ भ्रातनों युज्यते कर्त्तुं तव लोकविरुद्धकम् । अगम्यागमनं निन्द्यं, सपापं कुलदूषणम् ॥ ९४४ ॥ सं प्राऽऽह विप्रलब्धोऽसि, नूनं बन्धो ! मनीषिणा । नार्दोऽयमुपदेशानां, मौन्यभूदिति मध्यमः ॥ १४५ ॥
परेद्युर्मधौ बालः, समं मध्यमबुद्धिना । यदी लीलावरोधान-संस्थिते कामधामनि ॥ १४६ ॥ तम वैशिट पार्श्वस्थ, गुप्तस्थानव्यवस्थितम् । कामस्य वासभवनं, मन्दमन्दप्रकाशकम् ॥ १४७ ॥ कुतूहलवशेनाथ द्वारे संस्थाप्य मध्यमम्
मध्ये प्रविष्टः सहसा, स बालस्तस्य सद्मनः ॥ १४८ ॥ रात्र कामस्य शयने, कोमलामललिके । मित्राम्बादोषतो बालः, शेते स्म गतपुण्यकः ॥ १४६ ॥ इस तत्रैव पुरे, बहिरङ्गनरेशितः । शत्रुमर्दनानाभूत् प्रिया मदनकन्दली ॥ १४० ॥ साssगत्य तत्र कामोऽयं, शय्यास्थ इति भक्तितः । स्पृशन्ती सर्वनात्रेषु तं बालकमपूपुजत् ॥ १५१ ॥
For Private & Personal Use Only
www.jainelibrary.org