________________
( २६२ ) अभिधानराजेन्द्रः ।
मास
ऋक्षेषु चन्द्रस्य परिवर्तनतो मासो ऽप्याधेये श्राधारोपचा रात् ऋक्षः, ऋक्ष श्रादिर्येषां ते ऋक्षादयः, आदिशब्दात्चन्द्रमासादिपरिग्रहः । तेषामृक्षादीनां मासानामानयनोपायकरणमिदं यमाणम् । तदेवाह - ( जुगदित्यादि ) युगे चन्द्र-चन्द्राs - भिवर्द्धित-चन्द्रा - ऽभिवर्द्धितसंवत्सरप्रमाणे दिनराशिरहोरावराशिर्युगदिनराशिस्तं स्थापयित्वा, किय त्प्रमाणमित्याह श्रष्टादश शतानि त्रिंशानि त्रिंशदधिकानि एतावान् दिनराशिर्युगे भवतीति, कथमवसीयते इति चेत् ?, उच्यते-इह सूर्यस्य दक्षिणम् उत्तरं वा अयनं व्यशीत्यधिकदिनशतात्मकम्, युगे च पञ्च दक्षिणायनानि पञ्श्चोत्तरायणानि सर्वसंख्यया दशायनानि, ततत्र्यशीत्यधिकं दिनशतं दशकेन गुण्यते इत्यागतो यथोक्तो दिनराशिरेवं प्रमाणं दिनराशि स्थापयित्वा ।
( भाष्यकारः ) किमित्याहताहे हराहि भागं, रिक्खाईयाण दिनकरंताणं । सत्तट्ठी - बावट्ठी- एगट्टी -सट्टिभागेहिं ।। १७ ।। ततो- दिनराशिस्थापनानन्तरमृक्षादीनामृक्षमासप्रभृतीनां, दिनकरान्तानां सूर्यमासपर्यन्तानां नक्षत्रचन्द्रवदित्यमासानामित्यर्थः । दिनमानानयनाय यथाक्रमं सप्तषष्टिद्वाषपृथेकषष्टिषष्टिभागैः सप्तषष्ट्यादिभिर्भागहारैरित्यर्थः भागं ( इराहि ति ) हर । ततो यथोक्तं नक्षत्रादिमासगतदिनपरिमाणमागच्छति । तच्चोत्तरत्र दर्शयिष्यते ।
सांप्रतमभिवर्द्धितमासगतदिनपरिमाणानयनाय नेदं करणमिति ( भाष्यकारः ) करणान्तरमाहअभिवडियकरणं पुण, ठाविय रासि इमं तु कायव्वं । ऊबालीससगाई, पट्ठाई अणूणाई ॥ १८ ॥ श्रभिवर्द्धितकरणमभिवर्द्धितमासगतदिनपरिमाणानयनाय करं पुनरिदं वक्ष्यमाणं कर्त्तव्यं प्रयोक्तव्यमिति प्रयोगः । तदेवाह - स्थापयित्वा राशि किं प्रमाणमित्यत श्राह - एकोनचत्वारिंशतानि पञ्चषष्टीनि पञ्चषष्ट्यधिकान्यन्नानि - परिपूर्णानि । केषां राशिरयमिति चेत् ?, उच्चते श्रभिवर्द्धितमासगतदिनचतुर्विंशत्युत्तरशतभागानाम् । तथाहि श्रभिवर्द्धितमासस्य दिनपरिमाणमेकाशदहोरात्रा एकविंशत्युत्तरं शतं भागानाम्, अहोरात्राश्च प्रत्येकम् एकलिं शत् चतुर्विंशत्युत्तरशतेन गुण्यन्ते जातान्यष्टात्रिंशत् शतानि चतुश्चत्वारिंशदधिकानि-३८४४ उपरितनं च एकविंशत्युत्तरं शतं तत्र प्रक्षिप्यते जांतो यथोक्तप्रमाणो राशिः ३६६५ ।
( भाष्यकारः ) तं स्थापयित्वा किमित्याहएयस्स भागहरणं, चउवीसेणं सएण कायव्वं । जे लद्धा ते दिवसा, सेसा भागा मुणेयव्वा ॥ १६ ॥ एतस्य अनन्त रोदितस्य पञ्चषष्यधिकैकोनचत्वारिंशच्छ राप्रमाणस्य राशश्चतुर्विंशेन चतुर्विंशत्यधिकेन शतेन भागहरणं, भागे च हृते ये श्रङ्का लब्धास्ते दिवसा ज्ञातव्याः । शेषास्त्वङ्का उद्व (द्ध) खिताः अहोरात्रस्य चतुर्विंशत्युत्तरशत
भागाः ।
भाष्यम्
अहवा वि तीसह गुणे, सेसे तेणेव भागहारेणं । मइयम्मि जंतु लग्भइ, ते उ मुहूत्ता मुणेयव्वा ॥ २०॥
Jain Education International
मास अथवेति प्रकारान्तरद्योतने । तच्च प्रकारान्तरमिदम् - लब्धदिवसानामुपरि भागास्तावत्तदवस्था एव भियन्ते, तथैव शास्त्रे व्यवहारदर्शनात् । अथवा — अपिः समुच्चये । समुच्चयप्रकारान्तरस्यैवान्यस्य श्रूयमाणत्वात्, शेषे उद्ध (इ) रिते राशौ मुहूर्त्तानयनाय त्रिंशद्गुणे कृते ततस्तेनैव चतुविंशत्युत्तरशतप्रमाणेन भागहारेण भक्ते यत् लभ्यते ते मुहूर्त्ता ज्ञातव्याः ।
तस्स वि जं अवसेसं, बावट्ठीए उ तस्स गुणकारो । गुणकारभागहारे, बावट्ठीए य उववट्टो ||२१|| ( मा० ) तस्यापि मुहूर्त्तस्य संबन्धि यदवशेषमुद्ध (इ) रितं तस्य मुहूगतद्वाषष्टिभागानयनाय द्वाषष्ट्या गुणकारः-गुणकरणम् । किमुक्तं भवति — यदवशेषं तिष्ठति तन्तु द्वाषष्ट्या गुरायते, ततो ' गुणकारभागहारे इति' यस्योपरितनस्य राशेर्गुणकरमभवत्स गुणकारयोगात् गुणकारः । श्रधस्तनस्तु गुणकारश्च भागहारश्च गुणकारभागहारम् । समाहारो द्वन्द्वस्तस्मिन् षष्ठीसप्तम्योरर्थ प्रत्यभेदः तत एतदुक्तं भवति-गुएकारभागरयोर्द्वापष्ट्या अपवर्तः- अपवर्त्तना क्रियते ।
दोहिं तु हिए भागे, जे लद्धा तेऽवि सठ्ठिभागा उ । एएसिमागयफलं, रिक्खाईणं कमेण इमं ||२२|| ( भा० ) भागद्वारराशेश्चतुर्वित्यधिकशतप्रमाणस्य द्वाषष्ट्या पवसनायां जातौ द्वौ, ताभ्यां तु द्वाभ्यां हृते भागे येऽङ्का लब्धास्ते द्विषष्टिभागा एव । तुरेवकारार्थः । मुहूर्त्तस्य शातव्याः । सांप्रतमागतप्रतिपादनार्थमिदमाह - ( एएसिमित्या दि) एतेषां भागहाराणामृक्षादीनां नक्षत्रादिमासानां दिनरिमाणनयनाय भागं हरतां यत् श्रागतमेव फलमागतफलं तत् क्रमेण ऋक्षादिमासपरिपाट्या इदं वक्ष्यमाणम् । ( भाष्यकारः ) तदेवाहअहोरतं सत्त्वसं, तिसत्त सत्तट्टिभागनक्खत्तो । चंदो उ उगुणतीसं, विसट्टिभागा य बत्तीसं ॥ २३ ॥ नाक्षत्रो नक्षत्र संबन्धी मासः सप्तविंशतिरहोरात्राः सप्तष्टिभागाः, त्रिःसप्तत्रयो वाराः सप्त एकविंशतिरित्यर्थः २७ ॥ २२ ॥ तथाहि - युगदिनराशिस्त्रिंशदधिकाष्टादशशत प्रमाणो ध्रियते तस्य सप्तषष्टिर्युगे नक्षत्रमासा इति सप्तषष्ट्या भागो हियते, लब्धाः सप्तविंशतिरहोरात्रा एकविंशतिरहोरातस्य सप्तषष्टिभागाः । तथा चान्द्रः चन्द्रमास एकोनत्रिंशदहोरात्रा द्वाषष्टिभागा अहोरात्रस्य द्वात्रिंशत् २६| तथाहि तस्यैव युगदिनराशिस्त्रिंशदधिकाऽष्टादशशतमानस्य युगे चन्द्रमासा द्वाषष्टिरिति द्वाषष्ट्या भागे हृते एतावदेव लभ्यते इति । भाष्यम् -
उदुमासो तीस दिखा, आइच्चो तीस होइ अद्धं वा । एकतीसा, इगवीससयं च भागाणं ॥ २४ ॥ ऋतुमासः परिपूर्णानि त्रिंशद्दिनानि एकाषष्टिर्युगे ऋतुर्मासा इत्येकं पष्ट्यानन्तरोदितस्य ध्रुवराशेर्भागहरणे, एतावतो लभ्यमानत्वात् श्रादित्यः - श्रादित्यमासो भवति । त्रिंशदहोरात्रा अहोरात्रस्यार्द्ध यतः सूर्यस्य युगे मासाः षष्टिस्ततः षष्टयां ध्रुवराशेर्भागहरणे एतावल्लभ्यते इति श्रभिवर्द्धितोऽभिवर्द्धितमासः एकत्रिंशदहोरात्रा एकस्य चाहोरात्रस्य चतुर्विंशत्युत्तरशतभागानामेकविंशं शतमेकविंशत्यधिकं शत
For Private Personal Use Only
www.jainelibrary.org