________________
(१३१०) अभिधानराजेन्द्रः ।
बिहार
कस्तिष्ठति, ततो वदन्यत्र गभ्यते तङ्गमनम् - अन्यतः स्थानात् प्रज्ञापकसम्मुखं यदागम्यते तदागमनं गत्वा प्रत्यागमने विधीयमाने गमनाऽऽगमनम् । दृ०१ उ०३ प्रक० । अथ वाऽनेनैवाऽधिकारः वैराज्यग्रहणा देतेऽप्यर्थाः सूचिता भवन्तीति दर्शयति
अखराए जुराए, तत्तो वेरजए अ वेरजे । एतो एकेकम्मि उ, चाउम्मासा भवे गुरुगा ।। ६२२ ॥ अराजके यौवराज्ये ततश्च बैराज्ये ततश्च वैराज्येइति चतुरण भेदानाम् एकैकस्मिन् गच्छतस्तपः कालविशेपिताश्चतुर्मासा गुरुका भवेयुः । तत्र प्रथमे द्वाभ्यामपि कालाभ्यां लघवः, द्वितीये कालगुरवः, तृतीये तपोगुरबः, चतुर्थे ह्राभ्यामपि गुरवः ।
अराजकादीनामेव चतुरको म्याक्यानमाहअखरायं ति व मरखे, जुबराया जाब दोब्बऽभिसित्तो । वेरजं तु परबलं, दाइयकलहो उ वेरअं ॥ ६२३ ॥
यस्य प्राक्तनस्य राशो मरणे सजाते सति यावदद्याऽपि राजा युवराजचेत्येतौ द्वावपि नाभिषिक्ती तावदराजकं भरायते, प्राचीननृपतिना यो यौवराज्याभिषिक्त ग्रासीत् तेनाधिष्ठितं राज्यं परमनेन यावद्याद्याऽपि द्वितीयो युवराजोऽभिषिक्तः तावद्यौवराज्यमुच्यते । यत्र तु परबलं-परचक्रमागत्य विराज्यं करोति तद्वैराज्यम् । यत्र तु द्वयोर्दाविकयोः सगोत्रयोरेकराज्याभिलाषिणोः स्वस्वकटकसनिविष्टाभ्यां परस्परं कलहो-विग्रहस्तद्वैराज्यमुच्यते । विरुद्धराज्यं व्याख्यानयति
विरुद्धा वाणियमा, गमणाऽऽगमयं च होति अविरुद्धं । विस्संचारविरुद्धे, न कप्पती बंधणादीया ।। ६२६ ॥ यत्र वैराज्ये वाणिजकाः परस्परं गच्छन्ति अविरुद्धास्तत्र साधूनामपि गमनं विरुद्धं न भवति, कल्पते तत्रगन्तुमिति भावः । यत्र तु वणिजां शेषजनपदस्य च निसंचारं कृतं गमनाऽऽगमननिषेधो विहितः प्रतस्तद्वैराज्यं विरुद्धमुच्यते, तस्मिन् विरुद्धे गमनादि न कल्पते ।
अता चोरभेया, वग्गुरसेथा पलाइणो पहिया । पडिचरगा य सहाया, गमणागमबम्मि नायव्वा ।। ६२५ ॥ ('अत्ताण' पदव्याख्या 'अत्तारा' शब्दे प्रथमभागे ५०४ पृष्ठे गता ।) तथा-चौरा - गवादिहारिणः२, भेदा नाम गृहीतवापा दिया रात्रौ च जीवहिंसापरा म्लेच्छविशेषाः ३, वागुरिका:- पाशप्रयोगेण मृगघातकाः ४ शुनिका:-द्वितीया लुब्धकाः ५, पलायिनो नाम-ये भट्टादयो राशः पृछां बिना सकुटुम्बाः प्रणश्य राज्यान्तरं गच्छन्ति ६, पथिका - नानाविधनगरमा मदेशपरिभ्रमणकारिणः ७, प्रतिचरका नाम-ये परराष्ट्राणि स्वयं प्रकशचारितया गवेषयन्ति हेरिका इत्यर्थः ८ एते आत्मादयोऽत्राणादयो वा
भेदा भवन्ति, केषाञ्चिदाचार्याणां वागुरिकाः शौनिकाय द्वयेऽप्येक एव भेदास्तन्मतेनाष्टमा अमिरका भवन्ति, महिः सर्पः पूर्वस्मादकृतेऽप्यपकारे परं मारय
Jain Education International
For Private
बिहार
न्तीत्यहि मरकाः, एते सहायाः साधूनां वैराज्यगमनाऽऽगमने ज्ञातव्याः ।
एतेष्वेव भङ्गोपदर्शनायाह
श्रताणमाइए, दियपहदिडे य भट्टिया भगणा । एतो एगतरेणं, गमनागमयम्मि मलाई ।। ६२६ ॥ श्रात्मादिभेदेषु अत्राणादिषु वा सहायेषु एकैकस्मिन् दिवापथष्टपदैः सप्रतिपक्षेरष्टिका भजना भवति। अष्टौ भङ्गा भवन्तीत्यर्थः । तथाहि आत्मना सहायविरहिता हिया मार्गेण राजपुरुषैर्दृष्ट्रा गछन्ति १ आत्मना दिवामार्गेण राजपुरुषैरदृष्टाः २, आत्मना दिवा उन्मार्गेल राजपुरुषैर्दष्टाः ३, आत्मना दिवा उम्मार्गेण वा राजपुरुरहाः ४, आत्मना रात्री मार्गेण दृष्टाः ५, आत्मना राश्री मार्गेणादृष्टाः ६, भ्रात्मना रात्रादुम्मार्गेण दृष्टाः ७, आत्ममा रात्रान्मार्गेणाडा गच्छन्ति ८, एवं चौरादिभिः द्वितीग्याल्यानापेक्षया स्वत्राणादिभिः प्रतिचर कान्तिक सहायैरपि सार्द्धं गच्छतां प्रत्येकमडौ भङ्गाः कर्त्तव्याः, 'एसो ' इत्यादि पश्चार्द्धम् । एतेषामष्टानां भेदानां प्रत्येकमष्टविधामां मध्यादेकतरेणाऽपि प्रकारेण यो गमनं करोति तस्याऽsशाsनवस्थादयो दोषा भवन्ति ।
प्रायश्चित्तं चेदम्अत्तागमाइएसुं, दियपहृदिट्ठेसु चउलहू होंति । राम्रो अह अदिडे, चउगुरुगा इक्कमे मूलं ।। ६२७ ॥ आत्मादिषु अत्राणादिषु वा पदेषु, ये दिवाविषयाः प्रथमे चत्वारो भङ्गकास्तेषु दृष्टादृष्टपदाभ्यां सप्रतिपक्षाभ्यामुपलक्षितेषु तपः कालविशेषिताश्चत्वारो लघुकाः ये तु रात्रिविषयाः पाश्चात्याश्चत्वारो भङ्गकास्तेषु प्र पथा दृष्टादृष्टपदाभ्यां सप्रतिपक्षाभ्यामुपलक्षितेषु पःकालविशेषिताश्वत्वारो गुरुकाः । यतो राज्यारमधावितस्तस्यातिक्रमेऽतिलङ्घने कृते सति मूलम् ।
त
अथ सर्वभङ्गपरिमाणज्ञापनार्थमाहअत्ताणमाइयाणं, अट्ठएहऽदुहि पहि भइयाणं ।
सट्ठिए पदाणं, विराहखा होइ सा दुविहा ||६२८॥ आत्मादीनामत्राणादीनां वा अष्टानां पदानामष्टभिः पदैर्भः प्रत्येकं भक्तानां गणितानां चतुःषष्टिसंस्थानि भङ्गकपदानि भवन्ति । वतुःषष्टिश्च पदानामन्यतरेण गच्छत इयं द्विविधा संयमात्मविराधना भवति ।
तामेवाहकायगहखक-पंथिं भित्स चेत्र अइगमसं । सुमम्मिय अगमणं, विराहखा दुह वग्गाखं ॥ ६२६ || अपथे शस्त्रोपहतपृथिव्यां गच्छन् पृथिवीकार्य, नद्यादिसन्तरणे अवश्यायसम्भवे वाऽप्कायं, दवानलसम्भवे सार्थिकप्रज्ज्वालिताग्निप्रतापने वा तेजस्कायं यत्राऽग्निस्तत्र नियमाद्वायुर्भवतीति कृत्वा वायुकायं, हरितादिमईनप्रलम्बासेवने वा वनस्पतिकार्य, पृथिव्युदक वनस्पतिसमाधितत्र सा. नां परितापनादौ सकायम् । एवं षद्कायान् विराधयतीतिसंयमविराधना । तथा राजपुरुषा ग्रहणाकर्षणादि विदभ्यरि
Personal Use Only
www.jainelibrary.org