________________
( २ )
एवम उक्काय शब्द - अकायिकानां भेदं निरूपयन् तेर्षा शरीरादि न्यरूपयत् । नवति चाप्कायिकस्य जीवितमिति सयुक्तिकं निरूपितमत एव सचित्ता चित्तमिश्रविवेकश्च कृतः । तीव्रोदकस्याचित्तत्वमप्कायशस्त्राणि प्रतिपाद्य सचित्ताकापरिभोगविचारः प्रायुङ्ग । तत्राप्कायपरिभोगकारणानि अष्कायसमारम्भव्यावृत्तस्यैव मुनित्वं शाक्यादिमुनयो नियमतोऽकायिकांस्तदाश्रितजीवांश्च विहिंसन्तीति युक्त्या प्रतिपाद्य अप्कायस्पर्श निषेधं शीतोदकस्पर्श निषेधं च कृतवान् । एवमाशब्दे सूर्यस्य कति कस्यामृतावाढत्तयो केन च नक्षत्रेण युक्ताः प्रथमादयो भवन्तीति पुनः पुनर्भावयन् सुबोधमे निरूपितम् । अथ कस्मात्स्थानादेकेन्द्रिया आएमजाश्व जीवाः समागच्छन्तीति पृथ्वी कायिकानां पुनरपि गत्यागती भक्तो जीवानां गत्यागतिपरिज्ञानेऽनेकशो मिध्यादृष्टीनां सिद्धान्ता निपुणं निरूपिताः ।
अथ आगमशब्दे स्त्रशैल्या जेदप्रतिपादनपूर्वकमागमस्य परतः प्रामाण्यं तत्र च प्रामाणिकपुरुषप्रणीतत्वेन मामाएयं प्रतिपाद्य दृढतरयुक्तिनिरपौरुषेयत्वं निराकृतम् । स्वीकृतं च संभवद्रूपस्यैवागमस्य मूलागमैकदेशनूतस्य आगमान्तरस्य च प्रामाण्यं न तु वेदस्यैव | प्रमाणान्तराविषय एव पदार्थों नागमेन बोध्यते किं तु प्रमाणान्तर विषयोऽपि इति निरूप्य कणादमते शब्दप्रामाएयस्यानुमानान्तभावमनिधाय सर्वमतसंवादिशब्दप्रामाण्यं प्रत्यपादि । शब्दस्य वाह्यार्थे प्रामाण्यम् अषोहःशब्दार्य इति बौद्धमतं च निरूप्य अर्थस्वरूपं वाच्यवाचक नावं शब्दस्य वाचकता विचारं चाकार्षीत् । स्फोटः शब्दः इति वैयाकरणमतं स्फोटयित्वा स्वमते शब्दस्य वाचकत्वं शब्दस्य नित्यत्वविचारः शब्दार्थयोः संबन्धश्च हेतुवाद। हेतुवादभेदादागमस्य वैविध्यमागमस्य च सर्वव्यवहारनियामकत्वं च प्रतिपादितम् । धर्ममार्गे मोक्षमार्गे चागमस्यैव प्रामाण्यम् जिनागमस्यैव सत्यत्वम्, इत्यादयो मर्मग्राहिण श्रागमविषयिणो बहवो विषयाः समुपलभ्यन्ते । एवम् " आणा " शब्दे परलोके आज्ञाया एव प्रामाण्यम् प्रज्ञाप्रवर्तमानोऽप्यप्रवर्तमान एव तीर्थराज्ञाऽन्यथाकरणे दोषाः प्रायश्चित्तं चेत्यादिकानपरांश्च तद्विषयकान् विषयान् वर्णयित्वा आज्ञाव्यवहा रो निरूपितः । एवं आयरियशब्दे व्युत्पत्यादिप्रदर्शन पुरस्सरमाचार्य पदनेदमनिधाय कलाचार्यादिनाऽऽचार्यस्य विव्यं तेषां विनयकरणं च प्रदर्शितम् । निरूपितं चेहलोकोपकारिपरलोकोपकारिणोराचार्ययोः स्वरूपं तकेयोपादेयवत्त्वं च । प्रत्राजनाचार्योपस्थापनाचार्याच्यां द्वैविध्यं लक्षणं चाचार्यस्य, आचार्यस्य गुणाः यद्विरहितो गुरुर्न भवतीति भ्रष्टाचारत्वं पराहितकारित्वं दुर्गुणमाचार्यस्य निरूप्य प्रमादिनमाचार्य शिष्यो बोधयेत् । आचार्यस्य विनयः गुरुविनये वैद्यदृष्टान्तं च प्रदर्श्य केन कर्मविपाकेन गच्छाधिपतिर्भवत। ति वर्णितम् । आचार्यस्यातिशया निर्ग्रन्थिनामध्याचार्य इति यथायथं निरूपितम् | आचार्ये कान्नगते अवधाविते वा आचार्यान्तरस्थापनं तत्र “ सुत्तत्थे णिम्माओ " इत्यादिना लक्षणं च प्रतिपादितम् । आचार्यस्य परीक्षां गुरोराचार्यपदे स्थापना विधिं च तत्र स्थविरा: प्रष्टव्याः इति प्रतिपाद्य सपरिच्छदस्यैवाचार्यत्वमिति निरूपितम् । एवम् आणुपुत्र शब्डे आनुपूर्वीविषयक निरूपणम् । एवं स्वस्वविषयकसकविषयपूर्णाः चतुरस्रतो रमणीयाः विपक्षपक्षनिरूपणपूर्वकं युक्तियुतस्त्रपक्षस्थापननिरूपणगर्जाः पूर्वोक्ता अपरे चेमे शब्दास्तेऽवश्यं विलोकनीयास्तानेवाह । “ याता, आधाकम्म, आभिणिवोहिय, आरम्भ, आराधक, आलोयला, आसातना, आहार, इंद, इंदभूई, इंदिरा, इत्थिलिंगसिक, इत्यी, ईसर, उन, जग्गम, उग्गह, उदय, उद्देस, उद्देसिय, उपत्तिया, उपाय, जरन्न, उबयोग, उबवणा, जववाय, जवसंपया, उवसग्ग, उबहाण, उबहि, उवासगपकिमा, उसन, उमुयार” एते शब्दा अस्मिन् ग्रन्ये विशेषतो दर्शनीयाः रमणीयविषयपरिपूर्णाश्चेति सूचानकया निरूपिताः ॥
( ग्रन्थ निर्दिष्टप्रकरणानां सङ्केतः )
१ अङ्ग०
२ अनु०
३ अने
४ अन्त
SN
Jain Education International
अङ्गचूलिकाअनुयोगद्वार
अनेकान्तजयपताका
अन्तगरुदशाअष्टकयशोविजयकृत
अष्ट०
६ आचा०
७ आ० च०
० आ० म०प्र० आवश्यकमलयगिरिप्रथमखएम
ए आ०म० द्वि० आवश्यकमलयद्वितीयखएम
आचाराङ्गसूत्रआवश्यकचूणीं
१० श्रातु०
११ आ० क० १२ आव०
१३ उवा०
१४ उत्त०
१५ उपा०
१६ उत्त० नि०
आतुरप्रत्याख्यानआवश्यककथा
आवश्यकवृहत्तिऔपपातिकसूत्रवृभिउत्तराध्ययनसूत्र
उपासकदशाङ्गउत्तराध्ययननियुक्ति
१७ एका०
१० ओघ०
१० कर्म० कर्मग्रन्थ१० क० म० कर्मकृत
For Private Personal Use Only
एकाक्षरीकोश
नियुक्ति
www.jainelibrary.org