________________
→ प्रस्तावना -
इह हि खलु भारतवर्षे संस्कृतभाषायामनेकशोऽकारादिवर्णानुक्रमेण सङ्कलिताः कोशाः समुपलभ्यन्ते देशान्तरेषु च तत्तद्देशजावया, परन्नाद्यापि प्राचीनसमये मातृभाषात्वेन राष्ट्रभाषात्वेन च सकलजारत मिलब्धास्पदायां केवलिनाषायां कोऽपि कोषः संकलितोऽस्ति । किमत्राप्रस्तुतया प्राकृतभाषाप्रशंसया स्वरूपमेवात्मस्तुतिं विधास्यति । इयमेव उत्सर्पिएयवसर्पिणीकाले समजनि, समाहता च सर्वज्ञैर्गणधरैश्श्रेयमेव । कतिचिद्वर्णेषु सुप्तिङ्कत्सु च भेदमापन्नेयमेव संस्कृतभाषात्वेन परिणता । किं बहुना सर्वज्ञकथिता मर्मग्राहिणः पदार्थाः जैनदर्शनमूलसूत्राणि चास्यामेव जाषायामित्यस्या वर्णानुक्रमणिकया सङ्कलनमत्यावश्यकमिति वाढं सानुनयं सकलसंघेन संप्रार्थितः परमकारुणिकः सर्वतन्त्रस्त्रतन्त्रः श्रीमट्टारक श्रीश्री १००८ श्रीविजयराजेन्द्रसूरिर निधानेषु श्रेष्ठतममिममनिधानराजेन्द्रनामक कोषं निरमास्त । श्रेष्ठतमत्वमस्यावलोकनत एवोद्यमलमत्र काकदन्तपरीक्षया ।
किञ्च - अस्यां जारतभूमौ पञ्चमारके मनुष्येषु मनःपर्याय केवलयोः परिपूर्णश्रुतावधिज्ञानयोश्च विच्छेदेन अपूज्ञानयुक्तं सकलसङ्घमवलोक्येमं कोशं संग्रहतया ग्रथितवान् यथा-सूर्यावृत्त्यादीनां वर्णनम् ' आउट्टि ' शब्दे श्रोत्रादीन्द्रिय विषयकं वृत्तम् 'इंदिय ' शब्दे ऋतुविषयकम् ' उउ ' शब्दे एवं यथायथं वर्णितमनुपदमेव स्पष्टतया दर्शयिष्यामः । श्रयं कोश: संस्कृतभाषासु बादराणां द्रव्याभावेनासंग्रहितान्यकोशानां कामधुगेवोपकारं करोतीति नात्रार्थवादः । जैनरहस्य जिज्ञासूनां कृते स्थूलघटरूपज्ञाने चतुरिव विस्मृतपदार्थमार्गणे साक्षात्पदार्थमापक मिवेतस्ततो विकीर्णपदार्थानामेकत्रोपलम्भकमिमं संगृहीतमवलोक्य सर्वेऽपि सन्तः सन्तोषमेष्यन्तीति वाढं निश्चिनुमः ।
भो जो विदेशीया जैनदर्शनजिज्ञासको बौद्धेभ्यो भेदममन्यमाना विलोकयन्तु जैनदर्शनरहस्यम्, अवगच्छन्तु बौद्धदर्शनतस्तारतम्यम्, सर्वदर्शनमुकुटायमानमिमं जैनदर्शनमवलोक्य सूक्ष्मे क्षिकया विदांकुर्वन्तु जीवाजीवादितत्वम्, 1 प्राप्नुवन्तु परमोत्साहं सर्वविषयक समुदायस्ततच्चन्दे एवोपलभ्यते इति नात्र जवतां श्रमलेशसंभवः ।
पिच प्रचलिताद्यश्वीनभाषा ( हिन्दी ) शब्दपरावृत्तिजिज्ञासवोऽपि कस्माच्छब्दात्परानृत्य संस्कृते शब्दः प्रचलितः आधुनिककालापेक्षया संस्कृता ( हिन्दी ) दल वा इत्येतदप्येतद्न्यानुभवनेन सुखेनैव बोधिष्यन्तीति निर्विवादम् । अत एव अनिधानराजेन्द्र इति यौगिकं नाम यथाहि राजा निष्पक्षपातं शत्रुमित्रोदासीनेषु नियमान्नियुङ्के एवमयमपि पदार्थविज्ञानरूप नियमं जैन-बौद्ध-सांख्य- योगादिदर्शन श्रद्धालुषु पदार्थसंशोधकेषु संस्कृतप्राकृतभाषारसिकंषु च सममेव प्रवर्त्तयतीति ।
विषयसूचना
पक्षपातो न मे वीरे न द्वेषः कपिलादिषु ।
युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः ॥ १ ॥
इत्यनुरुन्धानेन विशेषतो दर्शनीया शब्दास्तत्रस्था विषयाश्च लेशमात्रतो विज्ञप्यन्ते, यथा- 'आन' शब्दे आयुषो भेदान्निरूप्य तस्यातिप्रियत्वं प्रतिपादितमत एव तत्पुष्टिकारणानि प्रतिपादितानि न खलु गतमायुः पुनरावर्तत इति च स्वल्पतः सूचितम् | आयुषोऽनित्यत्वं निरूप्य वर्षशतस्याप्यल्पत्वमेवेति वाढं विभावितम् । निरूपितानि च तत्रैव सोदाहरणानि सर्वसिद्धान्ताविरुद्धानि सप्तायुःक्ष्य कारणानि अपि च सोपक्रमनिरुपक्रमादिना भेदं निरूप्य श्रायुषोऽल्पत्वकारणं दीर्घायुष्कारणं शुभदीर्घायुरशुनदीर्घायुष्कादिना भेदास्तेषां कारणानि च दर्शितानि । आयुष्क
Jain Education International
जीवितहेतुत्वं जीवानामिह भव परभविकायुस्तत्र नैरयिकादीनां परजविकायुर्वन्धश्व प्रतिपादितः । प्रत्याख्यानादिना निवर्त्तिताकत्वं सप्रमाणं निरूप्य अनन्तरोपपन्नकनैरयिकादीनामायुर्वन्धचेति निपुणं विजावितम् । श्रसजीवानामेकान्तवाक्षैकान्तपण्डितबालपः रमतानां क्रियावाद्यादीनामायुर्वर्णयित्वा नैरयिकादिष्वापद्यमानानां भवि कजीवानां सायुकत्वमायुष्करणसंवेदनादि न्यरूपि ।
For Private & Personal Use Only
www.jainelibrary.org