________________
५४
लेश्या-कोश स्थितिपाको नामानुभाग उच्यते, तस्य निमित्तं कषायोदयान्तर्गतकृष्णादिलेश्यापरिणामाः, ते च परमार्थतः कषायस्वरूपा एव, तदन्तर्गतत्वात् ; केवलं योगान्तर्गतद्रव्यसहकारकारिणभेदवैचित्र्याभ्यां ते कृष्णादिभेदै भिन्नाः तारतम्यभेदेन विचित्राश्चोपजायन्ते, तेन यद् भगवता कर्मप्रकृतिकृता शिवशर्माचार्येण शतकात्ये ग्रन्थेऽभिहितम्'ठिइअणुभागं कसायओ कुणइ' इति तदपि समीचीनमेव, कृष्णादिलेश्यापरिणामानामपि कषायोदयान्तर्गतानां कषायरूपत्वात् । तेन यदुच्यते कैश्चिद्योगपरिणामत्वे लेश्यानाम् “जोगा पडिपएसं ठिइअणुभागं कसायओ कुणइ” इति वचनात् प्रकृतिप्रदेशबन्धहेतुत्वमेव स्यान्न कर्म स्थितिहेतुत्वमिति, तदपि न समीचीनम्, यथोक्तभावार्थापरिज्ञानात् । अपि च न लेश्याः स्थितिहेतवः ।
किन्तु कषायाः, लेश्यास्तु कषायोदयान्तर्गताः अनुभागहेतवः, अतएव च-'स्थितिपाकविशेषस्तस्य भवति लेश्याविशेषेण' इत्यत्रानुभागप्रतिपच्यर्थ पाकग्रहणम्, एतच्च सुनिश्चितं कर्मप्रकृतिटीकादिषु, ततः सिद्धान्तपरिज्ञानमपि न सम्यक् तेषामस्ति, यदप्युक्तम्-'कर्मनिष्यन्दो लेश्या', निष्यन्दरूपत्वे हि यावत् कषायोदयः तावन्निष्यन्दस्यापि सद्भावात, कर्म स्थितिहेतुत्वमपि युज्यते एवेत्यादि, तदप्यश्लीलम्, लेश्यानामनुभागबन्धहेतुतया स्थितिबन्धहेतुत्वायोगात् । अन्यच्च-कर्मनिष्यन्दः किं कर्मकल्क उत कर्मसारः ? न तावत्कर्मकल्कः तस्यासारतयोत्कृष्टानुभागबन्धहेतुत्वानुपपत्तिप्रसक्तेः, कल्को हि असारो भवति, असारश्च कथमुत्कृष्टानुभागबन्धुहेतुः ? अथ चोत्कृटानुभागबन्धहेतवोऽपि लेश्या भवन्ति, अथ कर्मसार इति पक्षस्तहिं कस्य कर्मणः सार इति वाच्यम् ? यथायोगमष्टानामपीति चेत् अष्टानामपि कर्मणां शास्त्रे विपाका वर्ण्यन्ते, न च कस्यापि कर्मणो लेश्यारूपो विपाक उपदर्शितः, ततः कथं कर्मसारपक्षमङ्गीकुर्महे ? तस्मात पूर्वोक्त एव पक्षः श्रेयानित्यंगीकर्तव्यः । तस्य हरिभद्रसूरिप्रभृतिभिरपि तत्र (तत्र) प्रदेशे अंगीकृतत्वादिति ।
-~-पण्ण० प १७ । प्रारम्भ में टीका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org