________________
लेश्या-कोश
११ निश्चयस्यान्वयव्यतिरेक दर्शनामूलत्वात् , योगनिमित्ततायामपि विकल्पद्वयमवतरति
किं योगान्तरगतद्रव्यरूपा योगनिमित्तकर्मद्रव्यरूपा वा ? तत्र न तावद्योगनिमित्त कर्मद्रव्यरूपा, विकल्प द्वयानतिक्रमात् , तथाहि-योगनिमित्त कर्मद्रव्यरूपा सती घातिकर्मद्रव्यरूपा अघातिकमद्रव्यरूपा वा ? न तावद् घातिकर्मद्रव्यरूपा, तेषामभावेऽपि सयोगिकेवलिनि लेश्यायाः सद्भावात् , नापि अघातिकर्मरूपा, तत्सद्भावेऽपि अयोगिकेवलिनि लेश्याया अभावात् , ततः पारिशेष्यात योगान्तगर्त द्रव्यरूपा प्रत्येया। तानि च योगान्तर्गतानि द्रव्याणि यावस्कषायास्तावत्तेषामप्युदयोपबृहकाणि भवन्ति, दृष्टं च योगान्तरगतानां द्रव्याणां कषायोदयोपबृहणसामर्थ्यम् । यथा पित्त द्रव्यस्य-तथाहि
पित्तप्रकोपविशेषादुपलक्ष्यते महान् प्रवर्द्ध मानः कोपः, अन्यच्च-बाह्यान्यपि द्रव्याणि कर्मणामुदयक्षयोपशमादिहेतवः उपलभ्यन्ते, यथो ब्राह्मयोषधिर्ज्ञानावरणक्षयोपशमस्य, सुरापानं ज्ञानावरणोदयस्य, कंथमन्यथा युक्तायुक्त विवेकविकलतोपजायते, दधिभोजनं निद्रारूप दर्शनावरणोदयस्य, तत्किं योगद्रव्याणि न भवन्ति ? तेन यः स्थितिपाकविशेषो लेश्यावशादुपगीयते शास्त्रान्तरे स सम्यगुपपनः, यतः स्थितिपाकोनामानुभाग उच्यते, तस्य निमित्तं कषायोदयान्तर्गत कृष्णादिलेश्यापरिणामाः, ते च परमार्थतः कषायस्वरूपा एव, तदन्तर्गतत्वात् ; केवलं योगान्तर्गत द्रव्य सहकारिकारण भेदवैचित्र्याभ्यां ते कृष्णादिभेदैभिन्नाः तारतम्यभेदेन विचित्राश्चोपजायन्ते, तेन यद् भगवता कर्मप्रकृतिः कृता शिवशर्माचार्येण शतकाख्ये ग्रन्थेऽभिहितम्-'ठिइ अणुभागं कसायओ कुणइ' इति तदपि समीचीनमेव, कृष्णादिलेश्या-परिणामानामपि कषायोदयान्तर्गतानां कषायरूपत्वात्। तेन यदुच्यते कैश्चिद्योगपरिणामत्वे लेश्यानाम् “जोगा पयडिपएसं ठिइअणुभागं कसायओ कुणइ" इति वचनात्. प्रकृतिप्रदेशबन्धहेतुत्वमेव स्यान्न कर्मस्थिति हेतुत्वमिति, तदपि न समीचीनम् , यथोक्तभावार्थापरिज्ञानात् ? अपि च न लेश्याः स्थितिहेतवः ;
किन्तु कषायाः, लेश्यास्तु कषायोदयान्तर्गताः अनुभागहेतवः, अतएव च'स्थितिपाकविशेषस्तस्य भवति लेश्याविशेषेण' इत्यत्रानुभागप्रतिपत्त्यर्थ पाकग्रहणम् । एतच्च सुनिश्चितं कर्मप्रकृतिटीकादिषु, ततः सिद्धान्तपरिज्ञानमपि न सम्यक् तेषामस्ति । यदप्युक्तम–'कर्मनिष्यन्दोलेश्या, निष्यन्दरूपत्वे हि यावत् कषायोदयः तावन्निष्यन्दस्यापि सद्भावात् , कर्मस्थितिहेतुत्वमपि युज्यते एवेत्यादि, तदप्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org