________________
लेश्या-कोश
... २६६ सहस्रारयोर्द्विवर्णानि कृष्णनीलहारिद्रवर्णाभावात् , आनतप्राणतारणच्युतकल्पेषु एक वर्णानि, शुक्लवर्णस्यैकस्य भावात्। ग्रैवेयकविमानानि अनुत्तरविमानानि च परम शुक्लानि । ___ सोहम्मीसाणेसु देवा केरिसया वण्णेणं पन्नत्ता ? गोयमा! कणगत्तयरत्ताभा वण्णेणं पण्णत्ता । सणंकुमारमाहिंदेसु णं पउमपम्हगोरा वण्णणं पण्णत्ता । बंभलोगेणं भंते ! गोयमा ! अल्लमधुगवण्णाभा वण्णेणं पण्णत्ता, एवं जाव गेवेज्जा, अणुत्तरोववाइया परमसुकिल्ला वण्णेणं पण्णत्ता ।
-जीवा । प्रति ३ । उ १ । सू २१५ । पृ० २३८ ___टीका-अधुना वर्णप्रतिपादनार्थमाह- 'सोहम्मी'त्यादि, सौधर्मेशानयोभदन्त ! कल्पयोर्देवानां शरीरकाणि कीदृशानि वर्णन प्रज्ञप्तानि ? भगवानाहगौतम ! कनकत्वग्युक्तानि, कनकत्वगिव रक्ता आभा. -छाया येषां तानि तथा वर्णेन प्रज्ञप्तानि, उत्तप्तकनकवर्णानीति भावः। एवं शेषसूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोब्रह्मलोकेऽपि च पद्मपक्ष्मगौराणि, पद्मकेसरतुल्यावदातवर्णानीति भावः, ततः परं लान्तकादिषु यथोत्तरं शुक्लशुक्लतरशुक्लतमानि, अनुत्तरोपपातिनां परमशुक्लानि, उक्तञ्च
कणगत्तयरत्ताभा सुरवसभा दोसु होंति कप्पेसु । तिसु होंति पम्हगोरा तेण परं सुकिला देवा ।।
सोहम्मीसाणदेवाणं कइ लेस्साओ पम्नत्ताओ? गोयमा ! एगा तेऊलेस्सा पन्नत्ता। सर्णकुमारमाहिंदेसु एगा पम्हलेस्सा, एवं बंभलोगे वि पम्हा, सेसेसु एक्का सुक्कलेस्सा, अणुत्तरोववाश्याणं एका परमसुक्कलेस्सा ।
-जीवा० प्रति ३ । उ १ । सू २१५ । पृ० २३६
टीका-सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां कति लेश्याः प्रज्ञप्ताः ? भगवानाह--गौतम! एका तेजोलेश्या, इदं प्राचुर्यमङ्गीकृत्य प्रोच्यते । यावता पुनः कथंचित्तथाविधद्रव्यसम्पर्कतोऽन्याऽपि लेश्या यथासम्भवं प्रतिपत्तव्या, सनत्कुमारमाहेन्द्रविषयं प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! एका पद्मलेश्या प्रज्ञप्ता, एवं . ब्रह्मलोकेऽपि, लान्तके प्रश्नसूत्रं सुगम, निर्वचनं--- गौतम ! एका शुक्ललेश्या प्रज्ञप्ता, एवं यावदनुत्तरोपपातिका देवाः। '
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org