________________
( १४१ ) ४. गणधर-गौतम !-एक प्रसंग .१ श्री वीरोऽपि ततः स्थानाविहरन् सपरिच्छदः ।
सुरासुरैः सेव्यमानः पृष्ठचंपापुरी ययौ ॥१६६।। सालो राजा महासालो युवराजश्च बान्धवौ । त्रिजगद् बान्धवं वीरं तत्र वन्दितुमेयतुः ॥१६॥ श्रुत्वा तौ देशनां बुद्धौ जामेयं गागलि स्वयम् । यशोमतीपीठरयोः सुतं राज्येऽभ्यषिञ्चताम् ||१६८।। अथ सालमहासालौ विरत्त्यौ भववासतः। श्रीमहावीरयपादाब्जमूले जगृहतुव्रतम् ॥१६९॥ कालान्तरेण विहरन् भगवान् सपरिच्छदः । चतुस्त्रिंशदतिशयो ययौ चम्पां महापुरीम् ।।१७०॥ स्वामिनोऽनुज्ञया सालमहासालर्षिसंयुत्तः। ततः पुरी पृष्ठचम्पां गौतमो गणभृद्ययौ ।।१७।। ववन्दे गौतमं तत्र भक्तितो गागलिनुपः। तन्मातापितरावन्ये पौरामात्यादयोऽपि च ॥१७२॥ तत्रासीनः सुरकृते सौवर्णे कमलासने । इन्द्रभूतिश्चतुर्शानो विदधे धर्मदेशनाम् ||१७३॥ गागलिः प्रतिबुद्धोऽथ राज्ये न्यस्य निजं सुतम् । दीक्षां गौतमपादान्ते पितृभ्यां सममाददे ॥१७४।। स तै स्त्रिभिः सालमहासालाभ्यां च समावृतः। चचाल गौतममुनिश्चम्पायां वन्दितुं प्रभुम् ॥१७५।। अनुगौतममायाता पंचानामपि वम नि । शुभभाववशात्तेषामुदपद्यत केवलम् ।।१७६॥ प्राप्ताः सर्वेऽपि चम्पायां पुर्यां तत्र जिनेश्वरम् । ते प्रदक्षिणयामासुः प्रणनाम तु गौतमः ॥१७७ तीर्थं नत्वाऽथ ते पंच चेलुः केवलिपर्वदि । तानूचे गौतमो हन्त वन्दध्वं परमेश्वरम् ॥१७८|| स्वाम्यूचे गौतमर्षे ! मा केवल्याशातनां कृथाः। गौतमोऽप्यक्षमयत्तान्मिथ्यादुष्कृतपूर्वकम् ॥१७९।।
-त्रिशलाका पर्व १०/सर्ग :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org