________________
वर्धमान जीवन-कोश दाणऽन्न पंथ नयणं, अणुकंप गुरुण कहण सम्मत्तं । सोहम्मे उववन्नो पलियाउ सुरो महिड्डीतो ॥२॥
आव० मूलभाष्य । गा० १, २ मलय टीका-अपरविदेहे ग्रामस्य चिन्तको ‘रायदारूवणगमण' मिति अत्र निमित्तशब्दलोपो द्रष्टव्यो राजदारूनिमित्तां तस्य वनगमन, सुसाधून भिक्षानिमित्तां सार्थाद्मटान तत्र दृष्टवान, ततोऽनुकम्पया. --परमभक्त्या दानं अन्नपानस्य, नयनं-प्रापणं पथि, तदनन्तरं गुरोः कथनं, ततः सम्यक्त्वप्राप्तिः, तत्प्रभावान्मृत्वाऽसौ सौधर्मलोके उत्पन्नः पल्योपमायुः सुरो महद्धिक इति ।! लद्रूण य सम्मत्त अणुकंपाए सो सुविहियाणं । भासुरवरबोंदिधरो देवो वेमाणितो जातो ॥
-आव० निगा । १४४ मलय टीका-स ग्रामचिंतकः सुविहितानामनुकम्पया-परमभक्त्या तेभ्यः सम्यक्त्वं लब्ध्वा च भास्वरां--दीप्तिमत्ती वरां-प्रधानां बोन्दी-तनु धारयति इति भास्वरवरबोन्दिधरः देवो वैमानिको जात इति नियुक्तिगाथार्थः। (ग) अस्यैव जम्यूटोपस्य प्रत्यग्विदेहभूषणे । विजयेऽस्ति महावप्रे जयन्ती नामतः पुरी ॥।।
दोर्वीर्येण समुत्पन्न इव नव्यो जनार्दनः। महासमृद्धिस्तत्रासोन्नृपतिः शत्र मर्दनः ॥४॥ तस्य प्रामे तु पृथिवीप्रतिष्ठानाभिधेऽभवत्। स्वामिभक्तो नयसाराभिवानो ग्रामचिन्तकः ।।५।। साधुसंबंधबाह्योऽपि सोऽकृत्येभ्यः पराङ मुखः। दोषान्वेषगविमुखो गुणग्रहणतत्परः ॥६॥ सोऽन्यदा वरदारुभ्यः पृथिवीपतिशासनात्। सपाथेयो महाटव्यामादाय शकटानगात् ॥७॥ तस्य च्छेदयतो वृक्षान्मध्यन्दिनमुपाययौ। जठरेऽग्निरिव व्योम्नि दिदीपे तपनोऽधिकम् ॥८॥ भृतकैर्नयसारस्य सारा रसवती तदा। समयज्ञ रुपनिन्ये मंडपाभतरोरधः ||६|| क्षुधितस्तृषितोः वापि यदि स्यादतिथिमम । तं भोजयामीति नयसारोऽपश्यदितस्ततः ॥१०॥ क्षुधितास्तृषिता: श्रान्ताः सार्थान्वेषणतत्पराः। धर्माम्भःप्लुतसर्वांगाः साधवश्चाययुस्तदा ।।११।। साध्वमी साधवो मेऽत्रातिथयः समुपस्थिताः । चिन्तयन्निति नत्वा तान् सोऽब्रवीद् ग्रामचिन्तकः।।१२। भगवन्तो भवन्तोऽस्यामटव्यां कथमागताः । एकाकिनः शास्त्रिगोऽपि पर्यटन्ति न खल्विह ।।१३।। तेऽप्यभ्यधुर्वयं स्थानात् सार्थन प्रस्थिताः पुरा । ग्रामे प्रविष्टा भिक्षायै ययौ सार्थतस्तदैव हि ॥१४॥ अनात्तभिक्षाश्चलिताः सार्थस्थानुपदं वयम् । आगच्छन्तो महाटव्यामस्यां निपतितास्ततः ॥१५॥ नयसारोऽब्रवीदेवमहो ! सार्थोऽतिनिष्कृपः । अहो पापाद्यभोरुरहो विश्वस्तधातकः ॥१६।। यत्सह प्रस्थितान् साधून साथ प्रत्याशया स्थितान् । अनागमय्प प्रपयौ निजकार्यकनिष्ठ रः ।।१७।। मत्पुण्य! यमायाता वनेत्रातिथयो मम । इत्युक्त्वा भोजनस्थानं स निन्ये तान्महामुनोन ।१८।। स्वार्थोपनोतैः पानान्नैः स मुनोन् प्रत्यलाभयत् । अन्यत्र गत्वा विधिना तेऽप्यभुञ्जत साधवः ।।१६।। प्रामायुक्तोऽपि हि भुक्त्वा गवा नत्वाऽवदन्मुनोन् । चलातु भावतोऽय पूर्मार्ग दर्शयामि वः।।२०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org