________________
३२६
वर्धमान जीवन - कोश
(ग) स्वाम्यभिप्रहसंपूर्त्या प्रीतास्तत्राययुः सुराः । वसुधाराप्रभृतीनि पंच दिव्यानि व्यधुः ||८०|| तुत्रुटुर्निंगडास्तस्यास्तत्पदे कांचनानि च । जज्ञिरे नू पुराण्यासीत् केशपाशश्च पूर्ववत् ||५८१|| सर्वागोणं च तत्कालं रत्नालंकारधारिणो । श्रोवोरभ कैर्विदधे विबुधैरथ चन्दना ॥ ५८२|| उत्कृष्ट नादं विदधू रोदः कुक्षिभरि सुराः । जगुश्च ननृतुश्चोच्च रंगाचार्या इवोन्मुदः || ५८३ ॥ मृगावतीशतानीकौ सुगुप्तो नन्दया सह । तत्रैयुः सपरीवाराः श्रुत्वा तं दुन्दुभिध्वनिम् ||५८४ | आययौ देवराजोऽपि शक्रो मुदितमानसः । संपूर्णाभिग्रहं नाथ नमस्तकतु द्रुतद्रु तम । ५८५॥ दधिवाहनराजस्य संपुलो नाम कचुकी । चंपावरकन्द आनीतो राज्ञा मुक्तस्तदैवहि ||५८६ ॥ तत्रायातो वसुमतीं दृष्ट्वा तत्पादयोर्नतः । विमुक्तकण्ठमन्द्रत् सद्यस्तामपि रोदयन् । ५८७ || किंरोदिषीति राज्ञोक्तः साश्रुः प्रोवाच कंचुकी । दधिवाहनराजस्य धारिण्याश्चेयमात्मजा ||१८|| तादृग्विभवविभ्रष्टा पितृभ्यां रहिता च हा । इयं वसत्यन्यगृहे दासीवत्तेन रोदिमि ॥ ५८६ ॥ राजाऽप्यूचे न शोच्येय संपूर्णाभिग्रहो यया । जगत्त्रयत्राणवीरः श्रीवीरः प्रतिलाभितः ||५६२॥ मृगावस्यष्यभाषिष्ट धारिणी भगिनि मम । इयं तद्दुहिता बाला ममापि दुहिता खलु || ५६१|| पंचाहन्यूनपण्मासतपःपर्यन्तपारणम् । कृत्वा धनावहगृहान्निर्ययौ भगवानपि || ५६२ ॥
वसुधारामथाऽऽदित्सुं लोभप्राबल्यतो नृपम् । व्याजहार शतानीकं सौधर्माधिपतिः स्वयम् | ५६३ नेह स्वस्वामिभावो यद्रत्नवृष्टिं जिवृक्षसि । यम्मै ददाति कन्येयं स एव लभते नृप ! ||५६४।। 'गृह्णात्विमांक इत्युक्ता राज्ञा प्रोवाच चन्दना अयं धनावहः श्रेष्ठी पिता हि मम पालनात् । ५६५ || जग्राह वसुधारां तां ततः श्रेष्ठीधनावहः । भूयोऽप्याखं डलोऽवोचच्छतानीकन रेश्वरम् ||५६.६ || बाला चरमदेहेयं भोगतृष्णापराङ्मुखी भविष्यत्यादिमा शिष्योत्पन्ने वीरस्य केवले || ५ ७ आस्वामिकेवलोत्पत्ति रक्षणीया त्वया ह्यसौ । इत्युक्त्वा मघवा नाथं नत्वाच त्रिदित्वं ययौ । ५६८ | कन्यकाऽन्तःपुरे निन्ये शतानीकेन चन्दना । सा स्वामि केवलोत्पत्तिं तत्र ध्यायन्त्यवास्थित | ५६६ ॥ अनर्थमूलं मूला च श्रेष्ठिना निरवास्यत । अपध्यानवती साथ विपद्य नरकं ययौ || ६८८।। - त्रिशलाका० पर्व १० सर्ग४
भगवान् का अभिग्रह पूर्ण होने के कारण देव प्रसन्न होकर वहाँ आये । और उन्होंने वसुधारा आदि पाँच दिव्य प्रगट किये। तत्काल चंदनबाला की बेड़िये टूट गयी। उसके स्थानपर नुवर्ण के नूपुर हो गये । और केशपाश पूर्व की तरह सुशोभित हो गये ।
श्री. वीरप्रभु के भक्त देवगण तत्काल चंदना को ( सर्व अंग में ) वस्त्रालंकार से सुशोभित किया ।
तत्पश्चात् देव पृथ्वी और अंतरीक्ष के उदर को पूर्ति करे वैसा उत्कृष्ट नादकर मुत्रधार की तरह हर्ष को प्राप्त होते हुए गीतनृत्यादिक करने लगे ।
दुन्दुभिकीका सुनकर मृगावती और शतानिक राजा तथा सुगुप्त मंत्री और नंदा मोटे परिवार के साथ
वहाँ आये ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org