________________
वर्धमानजीवन-कोश
२०१ आभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गुत्तेण य सव्वन्नू सव्वदरिसिणा ॥५६६॥
-आव० निगा ५६६ मलय टीका-आभापितः --संलप्तो जिनेन भगवता महावीरेण जातिः - प्रसूतिर्जराः वयोहानिलक्षणा
मरणं-दशविधप्राणविप्रयोगरूपं एभिर्विप्रमुक्तस्तेन, कथमाभाषित इत्याह-नाम्ना-हे इन्द्रभूते ! इत्येवंरूपेण तथा गोत्रेण च-यथा हे गौतमगोत्र ! किंविशिष्टेन जिने
नेत्याह-सर्वज्ञन सर्वदर्शिना ॥
आह-यो जरामरणविप्रमुक्तः स सर्वज्ञ एवेति गतार्थमिदं विशेषणं, न नयवादपरिकल्पितजात्यादिविप्रमुक्तनिरासार्थत्वात् , तथाहि-कैश्चिद् गुणविप्रमुक्तमोक्षवादिभिरचेतना मुक्ता इष्यन्ते ऽतस्तन्निरासार्थमूचे सर्वज्ञोन सर्वदर्शिनेति ।।
___ इत्थं नाम गोत्राभ्यां संलप्तस्य तस्यचिन्ता अभवत्-तथा चाहहे ! इंदभूइ ! गोअम ! सागवमुत्ते जिणेण चिंतेइ। नामंपि मे विआणइ, अहवा को मं न याणेइ ? ॥१२५॥ टीका- हे इन्द्रभुते ! गौतम ! स्वागतमिति जिनेनोक्त स चिन्तयति-अहो नामापि मे विजानाति, अथवा सर्वत्र प्रसिद्धोऽहं को मां न जानाति ।
जइ वा हि अयगयं मे संसय मनिज्ज अव छिदिज्जा।
ता हुन्ज विम्हओ मे इय चिंतंतो पुणो भणिओ ॥१२६।। टीका- यदि मे हृद्गतं संशयं मन्येत-जानीयात् , अथवा छिन्द्यात्-अपनयेत् , ततो मे विस्मयोभवेत् --भविष्यति इति चिन्तय र पुनरपि भगवता भणितः। किं भणित इत्याह
किं मन्नि अस्थि जीवो उयाहु नत्थित्ति मंसयो तुज्झ ।
वेय पथाण य अत्थं न याणसी तेसिमो अत्थो ॥६००॥ . टीका-हे गौतम ! किं मन्यते-अस्ति जीवः उत नास्तीति, नन्वयमनुचित एव तव संशयः, यतोऽयं
संशयस्ते विरुद्धवेदपदश्रुतिनिबंधनः, तेषां न च वेदपदानामर्थं न जानासि यथा न जानासि तथा वक्ष्यामः, तेषामयमों-वक्ष्यमाणस्वरूपः, अन्ये तु किं शब्दं परिप्रश्नार्थे व्याचक्षते, तच्चन युज्यते, भगवतः सकलसंशयातीतत्वात् , संशयवतः परिप्रश्नार्थः किंशब्दप्रयोगो, यथा किमित्थमन्यथा वेति, अथवा किमस्ति जीव उत नास्ति इति मन्यसे, अयं तव संशय इत्येवं व्याख्येयं, शेषं तथैव, यदुक्तं संशयस्तव विरुद्धपदश्रुतिनिबन्धन इति, तान्य नि वेदपदानि-विज्ञानधन एवैतेभ्यो भुतेभ्यः समुत्थाय पुनस्तान्येवानु विनश्यति न प्रेत्य संज्ञास्ती 'त्यादि, तथा स वै अयमात्मा ज्ञानमय इत्यादीनि च, एतेषां च वेदपदानामयमों भवच्चेतसि विपरिवर्त्तते-विज्ञानमेव-चैतन्यमेव घनो-नीलादिरूपत्वान् विज्ञानघनः x x x अमूर्त आत्मेत्यर्थः, x x x वेदपदानामयमर्थः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org