________________
३६०
पुद्गल-कोश स्कंधानां सजातीयत्वाद् द्वितोया वर्गणा, त्रिप्रदेशिकानामनन्तानामपि स्कंधानां सजातीयत्वात् तृतीया वर्गणा, एवमेकैकपरमाणुवृद्धया संख्येकप्रदेशिकानामनन्तानापि स्कंधानां सजातीयसमुदायरूपाः संख्याता वर्गणाः, असंख्यातप्रदेशिकस्कंधानामेककपरमाणुवद्धानामसंख्येया वर्गणाः, अनंतपरमाणुनिष्पन्नस्कंधानामनन्तावर्गणाः, अनन्तानन्तप्रदेशिकानां स्कंधानामनन्तानन्तवर्गणाः।
सर्वा अप्येता अल्पपरमाणुमयत्वेन स्थूलपरिणामतया च स्वभावाद् जीवानां ग्रहे न समागच्छन्तीत्यग्रहणवर्गणा एताः सर्वा अप्युच्यन्ते । एताश्च सर्वाः समतिक्रम्य अभव्यानन्तगुणः सिद्धानन्तभागतिभिः परमाणुभिनिष्पनैः स्कन्धेरब्धा ग्रहणप्रायोग्या जघन्यौदारिक वर्गणा भवन्ति, तत आरभ्य एककपरमाणुवृद्धस्कंधारब्धा औदारिकशरीरयोग्योत्कृष्ट वर्गणोयावदेता अपि जघन्योत्कृष्टमध्यवतिग्योऽनन्ता वर्गणा भवन्ति, यतो जघन्यायाः सकाशाद् उत्कृष्टाया अनंतभागाधिकत्वं वक्ष्यते, अनन्तभागश्चानन्त परमाणुमयः, तत एकोत्तरप्रदेशोपचये इति मध्यवर्तिनो नामानन्त्यं न विरुध्यते।
"तह अगहणंतरिय' त्ति 'तथा' तेन एकैकपरमाणूपचयरूपेण प्रकारेण 'अग्रहणान्तरिताः' अग्रहणवर्गणान्तरिता वर्गणा भवन्ति । एतदुक्तं भवतिऔदारिकशरीरोत्कृष्टवर्गणाभ्यः परत एकपरमाणुसमधिकस्कंधरूपा वर्गणा औदारिकशरीरस्यैव जघन्याऽग्रहणप्रायोग्या, ततो द्विपरमाण्वधिकस्कंधरूपा द्वितीयाऽग्रहणप्रायोग्या, एवमेककपरमाण्वधिकस्कंधरूपा वर्गणास्ताषद् वाच्या यावदुत्कृष्टा अग्रहणप्रायोग्या, एवमेककपरमाण्वधिकस्कंधरूपा वगणास्तावद् वाच्या यावदुत्कृष्टा अग्रहणप्रायोग्या वर्गणा भवति, जघन्यायाश्च वर्गणायाः सकाशाद् उत्कृष्टा वर्गणा अनंतगुणा। गुणकारश्चाऽभव्यानन्तगुण-सिद्धानन्तभागकल्पराशिप्रमाणो द्रष्टव्यः। एतासां चाग्रहणप्रायोग्यता औदारिक प्रति प्रभूतपरमाणुनिष्पन्नत्वात् सूक्ष्मपरिणामत्वाच्च वेदितव्येति x xx।
-कर्म० भा ५ । गा ७५ टीका। पृ० ८१-८२ विवेचन-एक प्रदेशी पुद्गल द्रव्यवर्गणा परमाणु स्वरूप होती है, अन्यथा एक प्रदेशी यह विशेषण नहीं बन सकता। परमाणु के एक प्रदेश को छोड़कर द्वितीयादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org