________________
३४४
पुद्गल - कोश
च २४, उदाहु चरिमाई च अचरिमाई च अवत्तव्वयाई य २५, उदाहु चरिमाई च अचरिमाई च अवत्तव्वयाई च २६, ? एवं एते छव्वीसं भंगा, गोयमा ! परमाणुपोग्गले नो चरिमे १, नो अचरिमे २, नियमा अवत्तव्वए ३, सेसा २३ भंगा पडिसेहेयव्वा ।
पण ० प १० । सू ७८२ । पृ० ३९०-९१
परमाणुम्मि य तइओ × × × ।
पण ० प १० । ७९० । पृ० ३९३
टीका “परमाणुयोग्गले णं भंते !" इत्यादि, अत्र प्रश्नसूत्रे षट्विंशतिभङ्गाः, यतस्त्रीणि पदानि चरमाचरमावक्तव्यालक्षणानि तेषां चैकैकसंयोगे प्रत्येकमेकचवचनास्त्रयो भङ्गाः, तद्यथा चरमोऽचरमोऽवक्तव्यकः, यो बहुवचनेन तद्यथा - चरमाणि १ अचरमाणि २ अवक्तव्यानि ३, सर्वसंख्या षट्, द्विकसंयोगास्त्रयः, तद्यथा— चरमाचरमपदयोरेकः चरमावक्तव्य पदयोद्वितीयः अचरमावक्तव्यकपदयोस्तृतीयः, एकेक स्मिन् चत्वारो भंगाः, तत्र प्रथमे द्विकसंयोगे एवं चरमश्चाचरमश्च, चरमाश्चाचरमाश्च स्थापना । एवमेव चतुभंगी चरमावक्तव्यपदयोः, एवमेवाचरमावक्तव्यपदयोः, सर्वसंख्यया द्विकसंयोगे द्वादश भंगाः, त्रिकसंयोगे एकवचनबहुवचनाभ्यामष्टौ स्थापना - सर्वसंकलनया षड्विंशतिः । अत्र निर्वाचनमाह - परमाणुयोग्गले नो चरमे' इत्यादि, परमाणुपुद्गल श्चरमो न भवति, चरमत्वं हयन्यापेक्षं न चान्यदपेक्षणीयमस्ति तस्य, अविवक्षणात्, न च सांशः परमाणुयनांशपेक्षया चरमत्वं प्रकल्प्येत, निरवयवत्वात् ( तस्य ), तस्मान्न चरमो, नाप्यचरमः, निरवयवतया मध्यत्वायोगात् ' किन्त्ववक्तव्यः चरमाचरमव्यपदेश कारण ( तः ) शून्यतया चरमशब्देनाचरमशब्देन वा व्यपदेष्टुमशक्यत्वात्, वक्तुं शक्य हि वक्तव्यं यत्तु चरमशब्देन अचरमशब्देन वा स्वस्वनिमित्तशून्यतया वक्तुमशक्यं तदवक्तव्यमिति स्थापना - । शेषास्तु भंगाः प्रतिषेध्याः, परमाणौ तेषामसंभवात्' वक्ष्यति च - 'परमामि य तइओ' अस्यायमर्थः परमाणौ- परमाणुचिन्तावां तृतीयो भङ्गः परिग्राहयः, शेषास्तु निरवयवत्वेन प्रतिषध्याः ।
Jain Education International
For Private & Personal Use Only
,
www.jainelibrary.org