________________
उच्चारण करने जितने काल भी असंख्यात समय के अन्तर्मुहूर्त के काल से शैलेशी अवस्था को प्राप्त होते हैं।
टिप्पण-अयोगी अवस्था के अलग से कथन में यह भी रहस्य हो सकता है कि जो आत्मपरिणति योगनिरोध के लिए प्रवृत्त हुई थी उसका भी, कार्य पूरा हो जाने के कारण शमन हो गया।
एक समय में ऊँचे जाकर, साकारोपयोग में सिद्ध होते हैं।
.४ टीका-'कइ सभइए ण' मित्यादि सुगम, आवर्जीकरणानन्तरं चाव्यवधानेन केवलिसमुद्घातमारभते, स च कतिसामयिक इत्याशङ्कायां तत्समयनिरुपणार्थमाह -'कइ समइए ण' मित्यादि सुगम, तत्र यस्मिन् समये यत्करोति तद्दर्शयति-तं जहा–पढमे समए' इत्यादि, इदमपि सुगम, प्रागेव व्याख्यातत्वात्, नवरमेवं भावार्थो-यथाऽऽद्य श्चतुभिः समयः क्रमेणात्मप्रदेशानां विस्तारणं तथैव प्रतिलोमं क्रमेण संहरणमिति, उक्तं चैतदन्यत्रापि-उड्डे अहो य लोगंतिगामिणं सो सदेहविक्खंभं । पढमे समयंमि दंडं करेइ बिइयंमि य कवाडं ॥१॥ तइयसमयंमि मंथं चउत्थए लोगपूरणं कुणइ। पडिलोमं साहरण काउं तो होइ देहत्थो ॥२॥ अस्मिश्च समुदघाते क्रियमाणे सति यो योगो व्याप्रियते तमभिधित्सुराह-से गं भंते !' इत्यादि, तन मनोयोगं वाग्योग वा न व्यापारयति, प्रयोजनाभावात्, आहं च धम्मसार मूलटीकायां हरिभद्रसूरिः-"मनोवचसी तदा न व्यापारयति, प्रयोजनाभावात्" काययोगं पुनयुञ्जान औदारिककाययोगमौदारिकमिश्रकाययोगं कार्मणकाययोग वा युनक्ति, न शेषं लब्ध्युपजीवनाभावेन शेषस्य काययोगस्यासंभवात्, तत्र प्रथमे अष्टमे च समये केवलमौदारिकमेव शरीरं व्याप्रियते इत्यौदारिककाययोगः, द्वितीये षष्ठे सप्तमे च समये कार्मणशरीरस्यापि व्याप्रियमाणत्वात् औदारिकमिश्रकाययोगः, तृतीयचतुर्थपञ्चमेषु तु समयेषु केवलमेव कार्मणशरीरव्यापार भागिति कार्मणकाययोगः, आह च भाष्यकृत्-न किर समुग्घातगतो मणवइजोगप्पयोयणं कुणइ। ओरालियजोगं पुण जुजइ पढमट्ठमे समए ॥१॥ उभयव्वावाराओ तम्मीसं बीयछट्टसत्तमए । तियचउत्थपंचमे कम्मगं तु तम्मत्तचेट्ठाओ॥२॥
से गं भंते !' इत्यावि, स भदन्त ! केवली लथा दण्डकपाटादिक्रमेण समुद्घातं गतः सन् सिद्धचति-निष्ठितार्थो भवति ? स च 'वर्तमानसामीप्ये वर्तमानवद्वे' तिवचनात् सेत्स्यन्नपि व्यवहारत उच्चतेतत आह-बुध्यते-अवगच्छति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org