________________
इन्द्रिय ]
मलीमसस्य स्वयमर्थान् गृहीतुसमर्थस्याऽर्थोपलम्भने यल्लिङ्गं तदिन्द्रयमुच्यते । (त. वा. १, १४, १ ) ; इन्द्रस्यात्मनो लिङ्गमिन्द्रियम् । उपभोक्तुरात्मनोsaवृत्तबन्धस्यापि परमेश्वरत्वशक्तियोगात् इन्द्रव्यपदेशमर्हतः स्वयमर्थान् गृहीतुमसमर्थस्योपयोगोपकरणं लिङ्गमिन्द्रियमित्युच्यते । (त. वा. २, १५, १ ) ; इन्द्रेण कर्मणा सृष्टमिति वा । अथवा स्वकृतकर्मवशादात्मा देवेन्द्रादिषु तिर्यगादिषु चेष्टानिष्ट - मनुभवतीति कर्मैव तत्रेन्द्रः तेन सृष्टमिन्द्रियमित्या ख्यायते । (त. वा. २, १५, २) । ४. तत्रेन्द्रियमिति कः शब्दार्थः ? 'इदि परमैश्वर्ये' इन्दनादिन्द्रःसर्वोपलब्धि भोग परमैश्वर्यसम्बन्धाज्जीवः, तस्य लिङ्गं तेन दृष्टं सृष्टं चेत्यादि । (श्राव. नि. हरि. वृ. 8१८, पृ. ३६८ ) । ५. इन्द्रेण कर्मणा स्पृ[सृ]ष्टमिन्द्रियं स्पर्शनादीन्द्रियनामकर्मोदयनिमित्तत्वात् । इन्द्रस्यात्मनो लिङ्गमिन्द्रियमिति वा कर्ममलीमसस्यात्मनः स्वयमर्थानुपलब्ध्य [ब्धुम ] समर्थस्य हि यदर्थोपलब्धौ लिङ्गं निमित्तं तमिन्द्रियमिति भाष्यते । (त. श्लो. २०१५ ) । ६. प्रत्यक्षनिरतानीन्द्रियाणि । प्रक्षाणीन्द्रियाणि । अक्षमक्षं प्रति वर्तत इति प्रत्यक्षं विषयोऽक्षजो बोधो वा तत्र निरतानि व्यापृतानि इन्द्रियाणि । शब्दस्पर्शरस-रूप-गन्धज्ञानावरणकर्मणां क्षयोपशमाद् द्रव्ये - न्द्रियनिबन्धनादिन्द्रियाणीति यावत् । XXX सङ्कर व्यतिकराभ्यां व्यापृतिनिराकरणाय स्वविषयनिरतानीन्द्रियाणीति वा वक्तव्यम् । XXX अथवा स्ववृत्तिरतानीन्द्रियाणि । संशय विपर्यय-निर्णयादो वर्तनं वृत्तिः, तस्यां स्ववृत्तौ रतानीन्द्रियाणि । X X X अथवा स्वार्थनिरतानीन्द्रियाणि । XX X अथवा इन्दनादाधिपत्यादिन्द्रियाणि । ( धव. पु. १, पृ. १३५ आदि); इन्द्रस्य लिङ्गमिन्द्रेण सृष्टमिति वा इन्द्रियशब्दार्थः XXX । ( धव. पु. १, पू. २३७ ) ; इन्द्रस्य लिङ्गमिन्द्रियम् । उपभोक्तुरात्मनोऽनिवृत्त कर्म सम्बन्धस्य परमेश्वरशक्तियोगादिन्द्रव्यपदेशमर्हतः स्वयमर्थान् गृहीतुमसमर्थस्योपयोगोपकरणं लिङ्गमिति कथ्यते । ( धव. पु. १, पृ. २६०); स्वविषयनिरतानीन्द्रियाणि, स्वार्थनिरतानी - न्द्रियाणीत्यर्थः । अथवा इन्द्र आत्मा, इन्द्रस्य लिङ्गमिन्द्रियम् । ( धव. पु. ७, पृ. ६ ) ; इंदस्स लिंगमिदियं । इंदो जीवो, तस्स लिंगं जाणावणं सूचयं जं तमिदयमिदि वृत्तं होदि । ( धव. पु. ७, पृ. ६१ ) ।
Jain Education International
[ इन्द्रिय
७. तस्यैवंप्रकारस्यात्मन इन्द्रस्य लिङ्गं चिह्नमविनाभाव्यत्यन्तलीनपदार्थावगमकारीन्द्रियमुच्यते । (त. भा. सिद्ध. वृ. २- १५ ) । ८. इन्द्रियाणि मतिज्ञानावरणक्षयोपशमशक्तयः । ( मूला वृ. १-१६); स्वार्थनिरतानीन्द्रियाणि अथवा इन्द्र आत्मा तस्य लिङ्गमिन्द्रियम् इन्द्रेण दृष्टमिति चेन्द्रियम् । (मूला. वृ. १२ - १५६ ) । 8 इन्दनादिन्द्रो जीवः सर्वविषयोपलब्धिभोगलक्षणपरमैश्वर्ययोगात्, तस्य लिङ्गमिन्द्रियम् । ( ललितवि. मु. पं. पू. ३९ ) । १०. स्पर्शादिग्रहणं लक्षणं येषां तानि यथासंख्यं स्पर्शनादीनीन्द्रियाणि X X X तत्रेन्द्रेण कर्मणा सृष्टानीन्द्रियाणि, नामकर्मोदयनिमित्तत्वात् । इन्द्रस्यात्मनो लिङ्गानि वा, कर्ममलीमसस्य हि स्वयमर्थानुपलब्धुमसमर्थस्यात्मनोsaपलब्धt निमित्तानि इन्द्रियाणि । XX X यद्वा, इन्द्रस्यात्मनो लिङ्गान्यात्मगमकानि इन्द्रियाणि । (प्रमाणमी. १, १, २१, पृ. १६) । ११. इन्द्रस्यात्मनः कर्ममलीमसस्य सूक्ष्मस्य च लिङ्गमर्थोपलम्भे सहकारिकारणं ज्ञाय [प] कं वा यत्तदिन्द्रियम् । इन्द्रेण नामकर्मणा वा जन्यमिन्द्रियम् । (त. सुखबो. वृ० १-१४) । १२. 'इदुपरमैश्वर्ये', 'उदितो नम्' इति नम्, इन्दनात् इन्द्रः आत्मा सर्वद्रव्योलब्धिरूपपरमैश्वर्यंयोगात्, तस्य लिङ्गं चिह्नमविनाभावि इन्द्रियम् । ( नन्दी. मलय. वृ. ३, पृ. ७५; जीवाजी. मलय. वृ. १ - १३, पृ. १६; प्रव. सारो. वृ. १९०५) । १३. इन्दनादिन्द्रः आत्मा ज्ञानलक्षणपरमैश्र्ययोगात्, तस्येदं इन्द्रियम् इति निपातनादिन्द्रशब्दादियप्रत्ययः । (प्रज्ञाप. मलय. वृ. १३-१८२, पृ. २८५ ) । १४. इन्द्रो जीवः सर्वपरमैश्वर्ययोगात्, तस्य लिङ्गमिन्द्रियम् । लिङ्गनात् सूचनात् प्रदर्शनादुपलम्भाद् व्यञ्जनाच्च जीवस्य लिङ्गमिन्द्रियम् । (ज्ञा. सा. दे. वृ. ७, पृ. २५) । १५. इन्दति परमैश्वर्यं प्राप्नोतीति इन्द्रः, आत्मतत्त्वस्य श्रात्मनः ज्ञायकैकस्वभावस्य मतिज्ञानावरणक्षयोपशमे सति स्वयमर्थान् गृहीतुमसमर्थस्य यदर्थोपलब्धिलिङ्गं तत् इन्द्रस्य लिङ्गमिन्द्रियमुच्यते । अथवा लीनमर्थं गमयति ज्ञापयतीति लिङ्गमिन्द्रियमुच्यते । आत्मनः सूक्ष्मस्य अस्तित्वाधिगमकारकं लिङ्गमिन्द्रियमित्यर्थः । XXX अथवा नामकर्मणः इन्द्र इति संज्ञा, इन्द्रेण नामकर्मणा स्पृष्टं [सृष्टं ] इन्द्रियमित्युच्यते । (त. वृत्ति श्रुत. २- १८ ) ; इन्द्रशब्देन श्रात्मा उच्यते, तस्य लिङ्गं इन्द्रियमुच्यते ।
२३४, जैन-लक्षणावली
For Private & Personal Use Only
www.jainelibrary.org