________________
mawwwmIMARATIWARINA
TAMAKAALAANAAAAAIIRAL
MAHARARAMMमा
MARALAIMINATANAMITALI
अनुभवन्नपि राज्यमयं पितु__ यंदधिकं चकमे विजयं दिशाम् । नहि निबन्धनमत्र सलोभता
यदतिजातसुतो यशसे पिता ॥६७॥ राजानमाजानुभुजं निशम्य तं
प्रतीपभूपा अधिकं चकम्पिरे । तदाश्रिता श्रीरपि चञ्चलाभवद्
यद्धारकं धार्यमनु प्रधावति ॥६८॥ दिग्यात्रायै प्रतस्थेऽथ वृद्धाभिः कृतमङ्गलः । अङ्गचेष्टाभिरादिष्टविजयाभ्युदयो नृपः ॥६९॥ नीराजनावह्निरपि प्रदक्षिण__श्चक्रे पंटुः पट्टहयोऽपि हेषितम् । जगर्ज राजेन्द्रगजो मदोर्जितं
तदा निमित्तैः शुभदैरुपस्थितम् ॥७०॥ पवित्रैश्छनौधैश्चमरसचिवैः शंसितशुभैः
स्वनद्भिर्निश्वानैर्विजयकथनैर्बन्दिभिरिव । विहङ्गैश्चाषाद्यैः स्वरगतिविशेषैश्चलितवान्
दिशं पूर्वां पूर्वापतिसदृशलक्ष्मीमधिगतः ॥७१॥ नृपांश्छिन्दन् भिन्दन् विषमतरदुर्गानदरितो नयन्नम्रानुच्चैःपदमसहदण्डानपनयन् ।
१. पटु कां. हं. मु. ॥ २. ०कथना ब० का. हं. मा. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org