________________
भाख्यानकमणिकोशे शास्त्रोपसंहार:
प्रस्ताव एष तव जीव ! पुनः कुतस्त्यो, भूयोऽपि मूढ ! ? मनसीति विभावयन्तः ।
यद् यत् समापतति कर्मवशादशर्म, तत् तत् समस्तमपि धीरधियः सहन्ते ॥२॥ ॥ इति श्रीमदाम्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे विवेकिजनस्वकृतकर्मोदयोपनतदुःखाधिसहनो नाम
एकचत्वारिंशोऽधिकारः समाप्त इति ॥४१॥
[ शास्त्रोपसंहारः] इदानी शास्त्रकारः शास्त्रवक्तव्यतामुपसंहरन् शास्त्रगतपठनादिफलं च दिदर्शयिपुरिदमाह
अक्खाणयमणिकोसं, एयं जो पढइ कुणइ जहजोगं । देविंद-साहुमहियं, अइरा सो लहइ अपवग्गं ॥५३।। ॥ कृतिरियं सैद्धान्तिकशिरोमणिश्रीमन्नेमिचन्द्रसूरेरिति ॥
व्याख्या--'आख्यानकमणिकोशं' व्यावर्णिताभिधेयम् 'एतं' पूर्वोक्तस्वरूपं "जो पढई" 'य' पुण्यवान् 'पठति' व्यक्तं कण्ठे धारयति 'करोति' विधत्ते 'यथायोगम्' औचित्याराधनेन 'देवेन्द्र-साधुमहितं' सुरपति-मुनिपूजितम् , अपवर्गविशेषणमिदम् , 'अचिरात्' शीघ्रमेव 'सः' जीवः 'लभते' प्राप्नोति 'अपवर्ग' मोक्षमिति गाथाक्षरार्थः ।। भावार्थस्तु अत्रापि गाथायां देवेन्द्रेति साध्ववस्थायां - निजनामविशेषणमध्ये विरचितमिति ।।
वृत्तिं विधाय यदिमां महती मयाऽऽतं. पुण्यं पवित्रितजगत्त्रयचित्तवृत्ति । तेनाश भव्यनिवहो लभतां भवाब्धौ. सद्यानपात्रमिव बन्धुरबोधिबीजम् ॥१॥
॥ आख्यानकमणिकोशवृत्तिः समाप्ता॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org