________________
३४८
आख्यानकमणिकोशे
प्रलपति बहुप्रकारं प्रतिवचनं देवि ! देहि मम दयिते!। कत्थ गया ? संधीरसु दंससु वयणं दुहृत्तम्स ॥१८॥ हा देवि ! नयननिर्जितपद्मदलं सरसललितसम्मेरम् । तुझ मुहं गयपुन्नो पेच्छिम्सं कहसु कइया हं ॥१९॥ एवं प्रलपन् राजा सचिवैः सन्धीरितो मधुरवचनैः । विहिणो मल्लो एयस्स देव ! भुवणे वि नत्थि जओ ॥२०॥ अवलम्बस्व ततो हृदि सुन्दर ! धैर्य विचारय विचित्रम् । विलसियमिमस्स विहिणो किं बहुएण वि पलविएण ? ॥२१॥ सम्प्रति देव्या विधिना विधीयतां देव ! वहिसंस्कारः । गय-मय-पब्वइएसुं सोयं न कुणंति सप्पुरिसा ।।२२।। प्रतिहतममङ्गलमिदं सपदि पतिप्यति शिरस्यतो भवताम् । अग्गी वि हु लग्गिस्सइ तुम्हं देहे न देवीए ॥२३॥ यस्मादपराधवतो मम रुष्टा प्रेमरोषणादेषा । तम्हा नियपिययममिममहमेव य पत्तियाविस्सं ॥२४॥ एवं न ददाति यदा कर्तुममुप्याः स वहिसंस्कारम् । तो संजाया सव्वे वि मंतिणो किमवि सविसाया ॥२५॥ एकमपुत्रो मोहेन विनटितोऽन्यच्च धरणिपतिरेषः । कह होही रज्जमिमं ? ति गरुयचिंता गमति दिण ॥२६॥ सा तु त्रिभुवनतिलकामूर्तिर्मुक्ता तथैव तैलेन । तलिऊण तं नियंतो चिट्ठइ राया गहगहिल्लो ॥२७॥ तेऽपि च तथैव तं शिक्षयन्ति राजानमतिनिपुणवचनैः । राया वि देवि ! एए न अच्छिउं दंति वसिमम्मि ॥२८॥ तदितः स्थानाद यावो दुर्जनरहिते क्वचिद् विजनदेशे । तत्थ सुहेणं गंतूण चिट्ठिमो सव्वया जेण ॥२६॥ इत्युक्त्वा तामुत्क्षिप्य मोहतः स्कन्धदेशमारोप्य । गंतुणं वणगहणे तं मोत्त कम्मि वि पएसे ॥३०॥ कन्द-फल-मूलभक्षी पश्यन्नास्ते प्रियां स तत्र सुखम् । एवं कयम्मि कइया वि कोविओ कहइ को वि नरो ॥३१॥ अहमिममत्यन्तं मूढमानसं मन्त्रिणो महीनाथम् । काउं कमवि पवंचं करेमि पउणं सपन्नाए ॥३२॥ प्रतिपन्ने तद्वचने तेनाप्यानायिता निपुणमतिका । एगा रमणी रमणीययाइगुणमंदिरमुदारं ॥३३।। सा कञ्चन नरमेकं मृतकं स्कन्धे तथा समारोप्य । तत्येव वणे परिभमइ तस्स रन्नो नियंतस्स ||३४|| तेनाऽऽपृष्टा सुन्दरि ! का त्वं ? स्कन्धे किमेष पुरुषस्ते ? । तीए भणियं कुलबालियाऽहमेसो य मे भत्ता ||३५|| परमेनं मृतकममी नागरका बालिशाः प्रजल्पन्ति । तो तेहिमहं बाढं संतविया एत्थ संपत्ता ॥३६॥ राजाऽप्यभाणि भद्रे ! दुर्जनलोकोऽयमीदृशः सर्वः । अहमवि तस्स भएणं एयम्मि वणे परिवसामि ॥३७॥ एनामपि मम दयितां मृतां प्रजल्पन्ति येन मूढधियः । ता समदुक्खाणऽम्हं जुत्तमरन्नम्मि वसिउं जे ॥३८॥ एवं च तत्र वसतोः सुखमतिजग्मुः कियन्त्यपि दिनानि । अह अन्नया य तीए भणिओ राया लयंतरिओ ॥३२॥ पश्यासौ तव दयिता किञ्चिजल्पति सहामुना पत्या । मह संतिएण दिट्ठा दिणम्मि अवरम्मि वि जमेसा ॥४०॥ तच्छत्वा वचनमसौ मन्दम्नेहो मनागजनि राजा। पेच्छसु अकयन्नुत्तं अलोइयं किमवि एईए ॥४१॥ . आलापयतोऽपीयं ददाति मम नोत्तरं किमपि पापा । एएणऽसंथुएण वि समं पुणो एवमालवइ ।।४२॥ अन्येद्युः कूपादौ क्वापि प्रत्यक्षिपत् तकन्मिथुनम् । सा पच्छा सविसाया आगंतूणं भणइ रायं ॥४३॥ पश्य त्वद्दयितायाः कीदृगहो ! अधमचेष्टितं राजन् ! । उद्दालिऊण नीओ कत्थइ पाणप्पिओ मज्झ ॥४४॥ अधुना तु मन्दभाग्या रोदिमि कस्याग्रतः ? श्रये कं वा ? । पेच्छ कहं धुत्तीए दो वि दढं बंचिया अम्हे ? ॥४५॥ श्रुत्वैतद् राज्ञाऽचिन्ति किमनया विहितमित्थमेवैतत् ? । अहवा मह मइमोहो मयाणि दोन्नि वि धुवमिमाणि ॥४६॥ नूनं मबोधार्थ [विहितः) केनचिदिति प्रपञ्चोऽयम् । ता कहमहमिय मूढो जाणतो वि हु भवसरूवं ॥४७॥ रे जीव ! कस्य माता ? कस्य पिता ? कस्य किल कलत्रमपि ? । भिन्नपहा जं सव्वे नियकयफलभोइणो सत्ता ॥४८॥ प्रत्यागतचैतन्यः पुनरपि पालयति नरपती राज्यम् । दोन्ह वि थी-पुरिसाणं महापसाओ को ताणं ॥४९॥ पश्यत मतेरचिन्त्यं माहात्म्यं येन तादृशो विपदः । मुक्को राया जाओ य भायणं रायलच्छीए ॥५०॥
॥ कुलनन्दाख्यानकं समाप्तम् ॥१२१॥ यद्वदमीषामभवत् सन्तापपरम्पराकरः शोकः । तह अन्नम्स वि जायइ ता चयह इमं विवेयवसा ॥१॥ शोककरणमशुभफलमभिहितम् , अत एव विदितजिनतत्त्वाः केचन एनं न कुर्वन्त्येव एतद् दृष्टान्तेनाह
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org