________________
विषयानुक्रमः ।
७३. भावट्टिकाख्यानकम् ।
१९३-२१८ श्रेष्ठिपुत्रीदेहवर्णना।
१९३-९४ राजसभायां नारीविषयकसंवादे मन्त्रिपुत्रसागरकृतो भानुश्रेष्टिपराभवः, सुरेन्द्रनामश्रेष्टिपुत्रासक्तयाऽपि स्वपितृजयार्थ भानुश्रेष्टिपुत्र्या भावटिकया सागरेण सह परिणयनम् ।
१९४ प्रदत्तप्रासादतलावासैकाकिनीभावष्टिकाकालनिर्गमनार्थप्रार्थितश्वसुरकृतः सखीद्वयसहवासस्वीकारः। सखीवेषधारिपूर्वानुरागिसुरेन्द्रदत्तेन सह भावट्टिकायाः प्रासादतले प्रच्छन्नो रतिविलासः । १९४-९५ भावट्टिकाया अन्यपुरुषलग्नारोपशुद्धयर्थ सुरप्रिययक्षमन्दिरे रात्रिनिर्गमनार्थमवस्थानम् ।
१९५ मारगोद्यतसुरप्रिययक्षपुरतो विक्रमवधनिमित्तसुवर्णपुरुषसिद्धिसाधकभैरवानन्दकापालिकवधावाप्तसुवर्णपुरुषसिद्धि-वसुधाऽनृणीकरणादिकथावस्तुमयं विक्रमराजकथानकं कथयित्वा भावट्टिकया कृतं रात्रीप्रथमप्रहरयापनम् ।
१९५-९७ पुनारणोद्यतसुरप्रिययक्षपुरतोऽन्तर्गतचातुर्यप्रयोगपरिगीत श्रेष्ठिपुत्रिजिनदत्तकथानकं अलीकमारीकलङ्कदूषितधारिणीराज्ञीस्वाभित्वप्राप्तवणिक्पुत्रकथानकं कथयित्वा भावट्टिकया कृतं रात्रीदितीयप्रहरयापनम् ।
१९७-२०० पुनरिणोद्यतसुरप्रिययक्षपुरतोऽन्तर्गतबुद्विरक्षितस्वकुटुम्बज्ञानगर्भनाममन्त्रिकथानक मृतकवाणीनिष्फलीकरणार्थ देशान्तरगमन-पाषाणपुत्तलिकामुग्धामरदत्तनामराजकुमाररक्षानिमित्तमित्राणन्दनाममन्त्रिपुत्रप्रयत्नरत्नमञ्जरीराजकुमार्यानयन-भवितव्यताऽप्रतीकारादिकथावस्तुप्ररूपकममरदत्तमित्राणन्दकथानकं कथयित्वा भावटिकया कृतं रात्रीतृतीयप्रहरयापनम् ।
२००-१० पुनरिणोद्यतसुरप्रिययक्षपुरतोऽपभ्रंशभाषानिबद्धं चारुदत्तकथानकं कथयित्वा भावष्टिकया कृतं रात्रीचतुर्थप्रहरयापनम् , आत्मरक्षा च ।
२१०-११ चारुदत्तकथानकप्रसङ्गास्त्वित्थम्-श्रेष्ठिपुत्रचारुदत्तस्यागमन्दिरपर्वतगमनम् । चारुदत्तकृतं वृक्षोकीलिताऽमितगतिनामविद्याधरस्य बन्धच्छोटनाषध्यादिना रक्षणम् । आसादितजीवितामितगतिविद्याधरकथितोऽन्यपुरुषासक्तस्वपत्नीजनितमरणान्तकष्टख्यापकः स्ववृत्तान्तः ।
२११-१२ मित्रवतीनामकमातुलपुत्र्या सह चारुदत्तस्य विवाहः । चारुदत्तस्य वसन्तसेनागणिकामन्दिरावस्थानम् । अपहृतसर्वस्वस्य वसन्तसेनाया अकया कृतं बहिनिष्काशनं स्वगृहागमनं च । अकिञ्चनस्य चारुदत्तस्य मातुलदत्तसाहाय्येन तूलव्यवसायकरणम्, अग्न्युपद्रवतूलनाशजनितधनहानिप्रसइश्च । पुनर्मातुलदत्तसाहाय्येन चारुदत्तस्य यवनद्वीपगमनम्, उपात्तबहुद्रव्यस्यागच्छतस्तस्य वायूत्पातेन समुद्रमध्ये प्रवहणभङ्गश्च । उत्तीर्णसमुद्रस्य परिव्राजककृतो रसकूपक्षेपः रसपानार्थागतगोधापुच्ठलग्नचारुदत्तस्य कूपवहिर्निर्गमश्च ।
२१३ मार्गमीलितमातुलमित्ररुद्रदत्तेन सह चारुदत्तस्य सुवर्णभूमि प्रति प्रस्थानम् । मार्गे रुद्रदत्तमारिताजस्य चारुदत्तकृतं धर्मश्रावगम् । सुवर्गभूमिगमनाय भारण्डपक्षिलग्नचारुदत्तस्यान्तरिक्षे भारण्डपक्षिणोर्भण्डनेन समुद्रपतनं समुद्रोत्तरणं च ।
२१४
२१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org