________________
विषयानुक्रमः ।
६८-६९
६९-७१
७१-८०
१७. वीरचरितारख्यानकम् ।
वर्द्धमानजिनविविधतपश्चरणसूचामात्रम् । १८. विसल्लाख्यानकम् ।
पुण्यवसुनामकभृत्यापहृतायाः प्रज्ञप्तिदेव्यरण्यप्रक्षिप्तायाश्चानङ्गसराराजकुमार्या दुष्करतपोऽनुष्ठानम् , तपःप्रभावादेवलोकगमनम् , ततश्च्युताया विसल्लानामकराजकन्याभवनिदर्शनं च । शौर्याख्यानकम् । गर्भाधान-जन्मानन्तरमृतजनक-जननीकस्य दुर्गतकुरूपब्राह्मगपुत्रस्य मुन्युपदेशेनात्मघातोपरमः प्रवन्याग्रहणं च । प्रव्रज्यानन्तरं नन्दिषेणमुनिनामकस्य तस्यानेकविधतपश्चरणमङ्गादिश्रुताध्ययनं च। वैयावृत्त्यकरणनिश्चलस्य नन्दिपेणमुनेर्देवलोके सौधर्मन्द्रकृता प्रशंसा, तदश्रद्दधानकृतश्रमणरूपसुरद्वयकृतं वैयावृत्यकरणविषये नन्दिपेणमुनिपरीक्षणम् , इन्द्रप्रशंसायाथातथ्यानुभवत्प्रकटरूपदेवयुगलकृता नन्दिषेणमुनेः स्तवना च । अन्ते नन्दिपेणमुनेर्निदानकरणम् , देवलोकगमनम् , ततच्युतस्य शौर्यपुरेऽन्धकवृष्णि-सुभद्राराश्योर्वसुदेवनामकपुत्रत्वेनोत्पत्तिथ । गतजन्मकृतनिदानफललब्धातिशयरूपर्दिवसुदेवदर्शनमुग्धनगरनारीणां विह्वलता । स्वं समुद्र
विजयबुद्धिनिवारितनिर्गमं ज्ञात्वा वसुदेवस्य गृहत्यागः । २०-२१. रुक्मिणी-मध्वाख्यानके।
गृहागतमासोपवासिमुनिनिर्भर्सनाकरणानन्तरमहाव्याधिग्रस्तायाः स्वजनपरित्यक्ताया लक्ष्मीमत्या अग्निप्रवेशः, ततो गर्दभी-सूकरीभवानन्तरं भृगुकच्छे नाविकपुत्रित्वेनोत्पन्नायास्तस्या लक्ष्मीमतीभवनिर्भर्त्सतमुनिदर्शनम् , प्रतिबोधः, श्रावकगृहावस्थानम् , उग्रतपश्चरणम् , चैत्यादिपर्युपासना च । ततः सा देवलोकगमनानन्तरं वराडदेशाधिपभेसइराज-यशोमतीराश्यो रूक्मिणीनानी पुत्री जाता । सत्यभामाया नारदर्षि प्रत्यविनयः । नारदोत्तेजितकृष्णकृतं रुक्मिणीहरणम् । रुक्मि-जरासन्धाभ्यां बलदेवस्य युद्धं जयथ । कृष्ण-बलदेव-रुक्मिणीनां द्वारिकाऽऽगमनम् । रुक्मिणीकुक्षिजन्मानन्तरं पूर्वभववैरिदेवापहृतस्य प्रद्युम्नस्य कालसंवराभिधानविद्याधरराजगृहे पुत्रत्वेनावस्थानम् , पुत्रहरणदुःखिताया रुक्मिण्या विलापश्च । धूमकेतुवैरानुबन्धख्यापिका प्रद्युम्नपूर्वभवकथा (मधुकथा )। प्रद्युम्नं प्रति कामाभ्यर्थनाभङ्गानन्तरं कपटपूकीराज्ञीकथनकुपितकालसंवरविद्याधरेण सह प्रद्युनस्य युद्धं जयश्च ।
प्रद्युम्नस्य द्वारिकागमनं शाम्बजन्म च । भावनास्वरूपवर्णनाधिकारः।
भावनोपदेशकाख्यानकनामनिरूपगम् । द्रमकाख्यानकम् । आनन्दकेलिमनोवानगतजनसम्मर्देऽलब्धभिक्षस्यात एव तं जनसमूहं हन्तुं वैभारपर्वतशिलाखननव्यागृतस्य तच्छिलाप्राप्तमृत्योर्द्रमकस्याशुभाध्यवसायतो नरकगतिनिवेदकमाख्यानकम् ।
७६-७७
७८
७९-८० ८१-९५
२२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org