________________
२।
सवृत्तिकस्य आख्यानकमणिकोशस्य
१५-१६
१७-४६
१७-२०
१८
१९
२०-२४
अभयकुमारबुद्धिरञ्जितचण्डप्रद्योतकृतमुदयनापहरणम् । उदयनसकाशे चण्डप्रयोतपुत्र्या वासवदत्तायाः सङ्गीतशास्त्राभ्यासः । उदयनकृतं वासवदत्ताया अपहरणम् ।
चण्डप्रद्योतमुक्तगृहीतवणिग्वेषाभयकुमारकृतं चण्डप्रद्योतस्यापहरणम् । २. दानस्वरूपाधिकारः।
दानोपदेशो दानविषयककथानकनामनिरूपणं च । ५. धनाख्यानकम् । .
सार्थवर्णना वनवर्षावर्णना च ।
सार्थस्थितमुनिगणासारणाविषये धनसार्थवाहस्य परितापः, मुनिभ्यो घृतदानम् , बोधिप्राप्तिश्च । ६. कृतपुण्यकाख्यानकम् ।
मुनिदानप्रभावत उपार्जितपुण्यस्य गोपालस्यानन्तरभवे श्रेष्ठिगृहे कृतपुण्यनामत्वेन जन्म । कृतपुण्यस्य वसन्तसेनागणिकामन्दिरगमनं जननी-जनकयोमरणं सर्वद्रव्यक्षयानन्तरमक्काकृतं गृहनिष्कासनं च। कृतपुण्यस्यार्थोपार्जनाय प्रस्थानम् । महिमाभिधानश्रेष्ठिपल्या कारितः कृतपुण्यस्यापहारः, विधवस्नुषाचतुष्कस्वीकारार्थ महिमाभ्यर्थितेन तेन तत्र वसनं च । कृतपुण्यसमुत्पादितस्नुषापुत्रया महिमया कृतं कृतपुण्यस्य गृहनिष्कासनं स्वगृहगमनं च। महिमास्नुषामोदकान्तःस्थापितजलकान्तमणिप्रभावसेचनकगजमोचनप्रसङ्गतः श्रेणिकराजपुत्रि-कृतपुण्ययोर्विवाहः । अभयकुमारबुद्ध्या चतसृगामपि सपुत्राणां महिमास्नुषागां कृतपुण्यगृहागमनम्। द्रोणाख्यानकम् । मुनिदानप्रभावतो द्रोणकर्मकरस्यानन्तरभवे दुष्पसहराज्ञः पुत्रत्वेन जन्म, कुरुचन्द्रनामकरणं च । केसरा-वसन्तदेवयोः स्नेहसम्बन्धः । अन्यस्मै दत्तायाः केसराया लग्नोत्सवं ज्ञात्वाऽऽत्मघातोधतस्य वसन्तदेवस्य कामपालकृता रक्षा । केसरा-वसन्तदेवयोः कामदेवमन्दिरे पाणिग्रहणं पलायनं च। पलायितयोर्मदिरा-कामपालयोर्गजपुरगतकेसरा-वसन्तदेवाभ्यां सह मेलापकः । शान्तिजिनसमवसरणं कुरुचन्द्र-वसन्तदेव-कामपाल-केसरा-मदिराणां प्रव्रज्याग्रहणं च । शालिभद्राख्यानकम् । सङ्गमकगोपालस्य मुनिदानप्रभावतोऽनन्तरभवे राजगृहस्थगोभद्र श्रेष्ठिजायाभद्राकुक्षावुत्पन्नस्य शालिभद्रनामकरणं गोभद्रश्रेष्टिपञ्चत्वं च ।। गोभद्रदेवेन प्रत्यहं शालिभद्राय विविधभोगर्द्धिसमर्पणम् । भद्राकृतं कम्बलरत्नक्रयणं च । श्रेणिकस्य शालिभद्रप्रासादगमनं शालिभद्रस्य खेदश्च । धर्मधोषमुनिदेशना भदा-शालिभद्रयोरासक्ति-विरक्तिप्रतिपादकः संवादश्च ।
२३-२४ २४-३०
२५
२६-२९
२९ २९-३० ३०-३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org