________________
वर्धमानो जिनेशः
ज्ञातृवंशोद्भवं धीरं सिद्धार्थकुलनन्दनम् । त्रिशलाया सुतं शान्तं जैनधर्मप्रसारकम् । वर्द्धमानं महावीरं सन्मति सन्मतिप्रियं । अतिवीरं श्रीवीरं च प्रणमामि मुदा अहम् ॥ युग्मम प्रशमगुणनिधानं प्राप्तकैवल्यज्ञानम् । गौतमगुरुसुखदं मोक्षमार्गे प्रधानम् ।। भवत्रसितजनानां सर्वदुःखप्रहारणं ।
भव्याजमुद्दिनेशं वोरन थं नमामि ॥ क्षान्तेः मार्दव सत्यशौचतपमा त्यागाख्य धर्मस्य च पाकिञ्चन्य सुसंयमार्जव तथा ब्रह्मति सत्कर्मणाम् विश्वस्मिन् कृतवान् प्रसारमखिलां सम्प्राप्य ज्ञानप्रभां वीरो नः भवतूत्सवाय समतासाम्राज्यसंस्थापकः ।।
विकरन् गुणरश्मिं धर्मतत्वस्य ईशः प्रविशन् सुखधाम्नि मोक्षमार्गप्रणेता। समवशरणमध्ये भव्यजीवान् प्रशास्ता । जयतु जयतु देवः वर्धमानो जिनेशः ।।
नेमिचन्द्र जैन
एम. ए. (द्वय)
साहित्याचार्य प्राचार्य, एस.पी. जैन गुरुकुल उच्चतर माध्यमिक शाला खुरई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org