________________
क्रियासंग्रहः
भूस्पर्शमुद्रं नीलवर्णम् । सा एव मध्यमवज्रा तु वज्रवज्रिणी स्मृता । ओं रत्नवज्रिण हूं अभिषिञ्च मां। दक्षिणकर्णस्योपरि रत्नसम्भवं पीतं वरदमुद्रम् । मध्यमाभ्यां मणीञ्च कृत्वा रत्नवज्री स्मृता। ओं धर्मवज्रिणि हूं अभिषिञ्च मां । मस्तकपृष्ठेष्वमिताभं रक्तं समाधिमुद्रम्। मध्यमा नामान्त्यपद्मा चानया धर्मवज्री स्मृता । ओं कर्मवज्रिण हूं अभिषिञ्च मां वामकर्णस्योपरि अमोघसिद्धिः श्यामो ऽभयमुद्रः । प्रसारितकराङ्गुली कर्मवज्री स्मृता । इति मुकुटाभिषेक: ।
तदनु पूर्ववत् कवचयेत्! समतालञ्च कुर्यात् । ततो वज्राभिषेकङ्गह्णीयात् । हृदये वज्रं सन्धार्य। अद्याभिषिक्तस्त्वं असि बुद्धैर्वज्राभिषेकतः । इदन्तत् सर्वबुद्धत्वं गृह्ण वज्रं सुसिद्धये । इति वज्राभिषेकः ।
वज्रवज्रघण्टां शिरसि धारयेत् । ओं वज्रसत्त्व त्वाम् अभिषिञ्चामि वज्रनामाभिषेकतः । हे श्री शाश्वत वज्रनाम तथागत भूभुर्व: स्व: । इति नामाभिषेकः।
ततो वज्रम् आदाय वज्रवज्रघण्टां धारयन् वज्रसत्त्वमहामुद्रां बद्धवा ।
इदन्तत् सर्वबुद्धत्वं वज्रसत्त्वकरे स्थितं ।
त्वयापि हि सदा धार्यं वज्रपाणि दृढव्रतम् ।।
१५
इति वज्रव्रतम्।
ओं सर्वतथागतसिद्धिवज्रसमय तिष्ठ एष त्वां धारयामि इति घण्टासमयः ! एवं स्वाधिष्ठानं कृत्वा साधयेत् ।
(अपूर्ण)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org