________________
श्रमण विद्या
२२५
णियमा निश्चयेन क प्राप्नोति झाणे ध्याने स्थित इत्यर्थः । किं प्राप्नोति, दुविहं पि द्विविधमपि चारित्रं कथंभूतं मोक्खहेऊ मोक्षकारणमिति ।
इदानीं आचार्यः शिष्यान् प्रति शिक्षामाह48) मा मुज्झह मा रज्जह मा रूसह इट्टणि? अत्थेसु ।
थिरमिच्छह जइ चित्तं विचित्तझाणप्पसिद्धीए ॥' अहो शिष्याः, थिरमिच्छह जइ चित्तं विचित्तझाणप्पसिद्धीए स्थिरमिच्छत यदि चित्तं किमर्थं विचित्रध्यानप्रसिध्यर्थं, तदा मा मुज्झह मा मोहं गच्छत, मा रज्जह मा रागं कुरुत, मा रूसह मा रोषं कुरुत, केषु विषयेषु, इट्टणि?मत्थेसु इष्टानिष्टार्थेषु ।
साम्प्रतं जपध्यानयोः क्रममाह49) पणतीससोलछप्पण चदु दुगमेगं च जवह झाएह ।
परमेट्रिवाचयाणं अण्णं च गुरूवएसेण ॥ भो शिष्याः, जवह झाएह जपत ध्यायत च यूयं कानि अक्षराणि केषां सम्बन्धीनि, परमेट्ठिवाचयाणं परमेष्ठिवाचकानां, केन प्रकारेण इत्याह-पणतीससोलछप्पण चदुदुगमेगं च पंचत्रिंशत्-"णमो अरिहंताणं, णमो सिद्धाणं, णमो आयरियाणं, णमो उवज्झायाणं, णमो लोए सव्व साहूणं ।" षोडश "अरिहंतसिद्ध आयरियउवज्झायसाह" । षट् “अरिहंतसिद्ध" | पंच “असिआउसा" । चत्वारः-"अरिहंत"। द्वय-"सिद्धा"। एकं-हैं। अण्णं च गुरुवएसेण अन्यं च गुरु उपदेशेन । सिद्धचक्रे उदिताम् ।
इदानीं कः, कथंभूतो ध्येय इत्याह50) गट्ठचदुधाइकम्मो दसणसुहणाणवीरियमईओ।
सुहदेहत्थो अप्पा सुद्धो अरिहो विचितिज्जो॥ विचितिज्जो विशेषेण चिंतनीयो भवति, भवतां भो शिष्याः कोऽसौ, अप्पा स्वात्मा कथंभूतोः, अरिहो अर्हत्स्वरूपः पुनः कथम्भूतः, सुद्धो शुद्धात्मस्वरूपो द्रव्यभावकर्मरहितः । पुनः किं विशिष्टः, सुहदेहत्थो सप्तधातुरहितः पुनः किं विशिष्टः, णटुचदुधाइकम्मो नष्टचतुर्घातिकर्माः, पुनः किं विशिष्टः, सणसुहणाणबीरियमईओ, अनंतदर्शनसुखज्ञानवीर्यमयः, समवशरणविभूतियुक्तो ह्यात्मा ध्येय इत्यर्थः ।
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org