________________
श्रमणविद्या
२२१
"
नादव्वा दव्वसंवरविसेसा द्रव्यसंवरविशेषा ज्ञातव्याः, कतिसंख्योपेताः, बहुभेया बहुभेदा: के ते इत्याह-- वदसमिदीगुत्तीओ धम्माणुपेहा परीसहजओ य चारितं च तपः समितिगुप्तिः धर्मानुप्रेक्षापरीषहजयश्चारित्रं च । तत्र तपो द्वादशप्रकारं बाह्याभ्यंतरभेदात्, अनशनं, अवमौदर्यं वृत्तिपरिसंख्यानं रसपरित्यागः, विविक्तशय्यासनं कायक्लेशो बाह्यं तपः षड्विधम्, प्रायश्चित्तं विनयं वैयावृत्यं स्वाध्यायः व्युत्सगं ध्यानं चाभ्यंतरतपः षड्विधं, समितयः पंचप्रकाराः ईर्ष्या, भाषा, एषणा, आदाननिक्षेपण व्युत्सर्गश्चेति । गुप्तयस्त्रिप्रकाराः मनोवचनकायरूपाः । धर्मो दशप्रकाराः उत्तमक्षमामार्द्दवार्ज्जवसत्यशौचसंयमस्तपस्त्यागा किंचन्यब्रह्मचर्याणि धर्माः, अनुप्रेक्षा द्वादशप्रकारा ज्ञातव्याः । अनित्य-अशरण-संसार एकत्व अन्यत्व - अशुचित्व- आस्रव-संवर- निर्जरा-लोकबोधिदुर्लभ-धर्मश्चेति । परीषहजयः द्वाविंशतिप्रकाराः, क्षुधापिपासा - शीत-उष्ण-दंशमशक-नाग्न्य-अरति स्त्री-चर्या निषद्या शय्या आक्रोश-वध-याचना अलाभ- रोग-तृणस्पर्शमलसत्कारपुरस्कार-प्रज्ञा- अज्ञान-अदर्शनानि, चारित्रत्रयोदशप्रकारं हिंसाऽनृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिः पंचप्रकाराः, समतास्तुति वंदनाप्रतिक्रमणस्वाध्यायप्रत्याख्यानानि षट्, असही निसही चेति चारित्रम् ।
साम्प्रतं निर्जराभेदद्वयमाह
36) जह कालेण तवेण य भुत्तरसं कम्मपुग्गलं जेण ।
भावेण सडदि या तस्सडणं चेदि णिज्जरा दुविहा ॥
जेण भावेण सडदि येन परिणामेण सडति गलति, किं तत्, कम्मपुग्गलं कर्मरूपं पुद्गलं, कथंभूतं, भुत्तरसं भुत्तो रसः शक्तिर्यस्य तद्भुक्तरसं केन कृत्वा, जह कालेण तवेण य, यथा कालेन सविपाकरूपेण तपसा च, हठादविपाकरूपेण इत्येवं द्विविधा - निर्जरा ज्ञातव्या । तस्सडणं च तत्कर्मणो गलनं च एषा द्रव्यनिर्जरा इति द्विप्रकारा ज्ञातव्या ।
इदानीं मोक्षस्वरूपमाह
37 ) सव्वस्स कम्मणो जो खयहेदू अप्पणी हु परिणामो ।
ओस भावमुक्खो दव्वविमुक्खो य कम्मपुहभावो ॥'
ओस भावमुक्खोस भावमोक्षो ज्ञेयः । परिणाममोक्षः, सः कः, जो अप्पणी हु परिणामो आत्मनश्चारित्रावरणीयक्षयात् यः समुत्पद्यते निर्मलपरिणामः, स भाव
१. णेयो ।
Jain Education International
For Private & Personal Use Only
संकाय पत्रिका - २
www.jainelibrary.org