________________
२१६
अवचूरिजुदो दव्वसंगही इदानीं कालस्वरूपमाह____21) दव्वपरिवरूवो जो सो कालो हवेइ ववहारो।
परिणामादीलक्खो वट्टणलक्खो हु परमट्ठो॥ पुद्गलकर्माणुद्रव्यप्रच्यवनात् उत्पन्नः समयरूपः, मुख्यकालस्य पर्यायाख्यः क्षणध्वंशीव्यवहारकालः; परिणामादोलक्खो, स च व्यवहारकाल: परिणामलक्ष्यते नवजीर्णरूपैः। वट्टणलक्खो हु परमट्ठो, द्रव्याणि वर्त्तनां याति स्वपरिणति नयति, तदेव लक्षणस्य स वर्तनालक्षणः हु पुनः परमट्ठो परमार्थकालः, अयं उक्तो ज्ञायते, कालः, इति लोकवचनात् । स च नित्योऽन्यथा कथं द्रव्यवत्ता ।।
तस्य निश्चयकालस्य किं स्वरूपमित्याह22) लोयायासपएसे एक्कक्के जेट्ठिया हु एक्केको।
रयणाणं रासीमिव ते कालाणू असंखदव्वाणि ॥' ते कालाणू असंखदव्वाणि, ते कालाणवोऽसंख्यातद्रव्याणि ज्ञातव्याः। ते के जे ठिया ये स्थिताः हु स्फुट क्व लोयायासपएसे लोकाकाशप्रदेशे कथं स्थिताः । एक्कक्के एकैके एकस्मिन्नाकाशप्रदेशे एकैकपरिपाट्या, अयमर्थः लोकाकाशस्य यावन्तः प्रदेशास्तावन्तः कालाणवो, निष्क्रिया, एकैकाकाशप्रदेशेन एकैकावृत्यालोकं व्याप्य स्थिताः रूपादिगुणविरहिता अमूर्ताः । कथं लोकव्याप्यस्थिताः रयणाणं रासीमिव, यथा रत्नानां राशयः संघाततारारामेकं (?) व्याप्य तिष्ठति तथा ते तिष्ठन्ति ।
एतानि षड् द्रव्याणि कालरहितानि पञ्चास्तिकायाः भवन्तीत्याह23) एवं छन्भेयमिदं जीवाजीवप्पभेददो दव्वं ।
उत्तं कालविजुत्तं णादव्वा अस्थिकाया दु॥ एवं पूर्वोक्तप्रकारेण उत्तं प्रदिपादितम्, किं तत् दव्वं द्रव्यं इदं प्रत्यक्षीभूतं, कतिभेदं, छन्भेयं, षड्भेदं, कस्मात् जीवाजीवप्पभेददो, जीवाजीवप्रभेदतः। कालविजुत्तं णादव्वा अस्थिकाया दु, एतानि षड्द्रव्याणि कालरहितानि पञ्चास्तिकायाः ज्ञातव्याः दु पुनः।
एतेषां पञ्चास्तिकायानामस्तिकायत्वं कथं सिद्धमित्याह____24) संति जदो ते णिच्चं अस्थि त्ति भणंति जिणवरा जम्हा ।
___ काया इव बहुदेसा तम्हा काया य अस्थिकाया य॥ १. पदेसे । २. तेणेदे-द्र० सं० वृ० । संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org