________________
सप्ताशोत्याधिकाष्टादशखीष्टाब्दे (१८८७ ई०) रिचार्ड मॉरिशमहोदयेन "सबमोंपायनम्" इति ग्रन्थस्य रोमन-लिप्यां सम्पादनं विहितम् । तेन एतत्सम्पादनाय सिंहली लिप्यां लिखितस्य एकस्य हस्तलेखस्य उपयोगः कृतः । हस्तलेखोऽयं तेन ब्रिटिश संग्रहालयाद् ओरियण्टलाख्यात् २२४८ संङ्ख्याकात् प्राप्तः । पुनस्तेन सिंहलीलिप्यां लिखितेन बतुवन्तुदेवपण्डितेन सानुवादं सम्पादितेन पुस्तकेन मेलनं कृतं, यत् पुस्तकं श्रीलङ्कायाः शास्त्राधारमुद्रणालये १८७४ ख्रीष्टाब्दे प्रकाशितमभूत् । एतस्मिन् सन्दर्भ तस्य कथन मेतत् यत् सिंहलीलिप्यां प्रकाशिते हस्तलिखितपुस्तके तथा सिहली लिप्यां मुद्रिते पुस्तके न किञ्चिदन्तरम् ।
रिचार्ड मॉरिशेन सम्पादित 'सद्धर्मोपायनं' पालि-टेक्स्ट-सोसायटी पत्रिकायां रोमनलिप्यां प्रकाशितं जातम् । पुस्तकस्यास्य देवनागरी-लिप्यामितः पूर्व प्रकाशनं नंवाऽभूत्, इति कृत्वा प्रथमबारमत्र प्रस्तूयते । ग्रन्थस्यास्य बौद्धजगत्यतिमहत्त्वपूर्ण स्थानमस्ति । यतो हि अस्मिन् बुद्ध-प्रतिपादितनैतिकमार्गाणामुल्लेखो विद्यते। बौद्धधर्मस्य समेषां प्रधानविषयाणां अस्मिन् गाथामाध्यमेन अभिव्यक्तिर स्ति ।
'सद्धर्मोपायनं' बौद्धधर्मस्य नैतिकमार्गगुणानां नव विंशत्यधिकषट्शतसंख्याभिः (६२९) गाथाभिः वर्णनं प्रस्तौति । विषयवस्तु नैव नूतनं परं शैली तावत् ओजःपूर्णा मौलिकी च । भागाभ्यां द्वाभ्यां एतद्विभज्यते । (१) दुराचारदुष्परिणामः (२) सदाचार-सुपरिणामश्च । बौद्धधर्मस्य समेषां मौलिक सिद्धान्तानां समावेशोऽत्र विद्यते । सिद्धान्तानामेतेषां वर्णन अतिप्रभावशालि तथा मनन-शीलपद्धत्या कविनोपन्यस्तम् । एकोनविंशतिशीर्षकैः पापदुष्परिणामः, पुण्य फलं, दानप्रशंसनं, शीलप्रशंसनं, अप्रमाद इत्यादिविषयाणां काव्यमयं वर्णनम तिहृदयग्राहि अस्ति ।
सद्धर्मोपायनस्य रचयिता श्रीलङ्कायाः स्थविरः आनन्द आसीत् । अस्यापरं नाम अभयगिरि: कविचक्रवर्ती आनन्द इत्यप्यासीत् । सद्धर्मोपायनस्य हस्तलिखितप्रतिग्रन्थे ६२१ गाथान्ते कथितं यत्---"इति भदन्त-आनन्दत्थेरेन कतं सद्धभ्मोपायनस्य साहरणं समत्तं"। एतेन स्पष्टं यदियं रचना भदन्त आनन्दस्थविरस्यैव । डॉ० भरतसिंहोपाध्यायेनापि ऐतदेव स्वीकृतम् । रचनेयं तेन स्वप्रियब्रह्मचारि-बुद्धसोमायोपायनं कतु भिक्षुत्वञ्च अपरिहातु कृता । परं विमलाचरणलाहामहोदयेन ग्रन्थोऽयं ब्रह्मचारि बुद्ध-सोमेनैव रचितः, इति “हिस्ट्री आफ पालि लिटरेचर" ग्रन्थस्य द्वितीयभागे ६२६ पृष्ठे लिखितम्, किन्तु हस्तलिखितप्रतिप्रमाणेन नोचितं प्रतीयते । बुद्धसोमायोपायनं कतु मेव रचनेयं प्रवृत्तेति याथार्थ्यम् । सद्धर्मोपायनस्य रचना-कालमाश्रित्य विद्वत्सु नैकमत्यम् । मो० गायगरमहोदयस्य अनुसारेण रचनेयं चतुर्दशशताब्द्यां प्रादुर्भूता डॉ० भरतसिंहोपाध्यायस्य चानुसारेणेयं रचना द्वादश-त्रयोदशशताब्याः निकटे जातेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org