________________
पुरोवाक्
'तच्च वियारो' प्राकृतभाषानिबद्धो जैन सिद्धान्तग्रन्थः, विशेषतस्तु श्रावकाचारविषयकः । ग्रन्थस्य प्रथमगाथायां तच्चवियारो' इति ग्रन्थनाम निर्देशः तथा चान्ते ग्रन्थकर्तुर्नाम 'वसुनन्दिसूरि' (गाथा 294) इत्युल्लिखितम् । 295 पद्यात्मकेऽस्मिन् ग्रन्थे 287 प्राकृतगाथाः तथा च अष्ट अपभ्रंशपद्यानि प्राप्यन्ते। ग्रन्थस्य विभागः विषयानुसारम 11 एकादशप्रकरणेषु कृतः । तद्यथा
1. नवकारप्रकरणम् । 2. धर्मप्रकरणम् । 3. भावनाप्रकरणम् ।
सम्यक्त्वप्रकरणम् । 5. पूजाप्रकरणम् । 6. विनयप्रकरणम्। 7. वैय्याव त्यप्रकरणम । 8. श्रावकस्थानप्रकरणम् । 9. जीवदयाप्रकरणम् । 10. श्रावकविधिप्रकरणम् । 11. दानविधिप्रकरणम् ।
अस्त्येतादृशानां नैतिकमूल्यानां सार्वजनीनं महत्त्वम् । स्वस्य विकाशे परेषां च कृते नियमानामेषामनुपालनं सर्वथा महनीयतां भजते ।
अस्य ग्रन्थस्य रचयिता वसुन न्दि: शौरसेनीप्राकृतागमपरम्परायां संजातः । अस्य वैदुष्यं समाजस्य विकाशाय च प्रयत्नाः तत्त्वविचारे ग्रन्थान्तरेषु च दृश्यन्ते । 'उवासयज्झयणं' इति नाम्ना प्राकृते श्रावकाचारः तथा च मूलाचारनामकस्य मुनेराचारग्रन्थस्य संस्कृतवृत्तिः, समन्तभद्रस्वामिनः देवागमाख्यग्रन्थस्य संस्कृतवृत्तिः, स्तुतिशतकस्य च संस्कृतवृत्तिः वसुनन्दिसूरेः प्राकृतसंस्कृतयोः महत्त्वं ख्यापयन्ति । प्रतिष्ठासारः, अस्य एका अन्या संस्कृतकृतिः ।
तत्त्वविचार: अत्र प्रथमवारं प्रकाश्यत इत्यस्य प्रथमं वैशिष्टयम् । ततश्व परमं महत्त्वं प्राचीनजनागमपरम्पराया: नैतिक मूल्यानां संरक्षणम् । पूर्वमनीषिभिः प्राकृतागमेषु ये महान्तः नैतिकनियमाः आदर्शाश्व संग्रथिताः, ते श्रुतपरम्परया प्रायः विस्मृताः परिवर्तिताश्च ।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org