________________
पञ्चगतिदीपनं नामेदं पुस्तकं 'लियोन फिशर'महोदयेन सम्पादितं 'पालि टेक्स्ट सोसाइटी'-इत्याख्यया संस्थया १८८४ खीष्टाब्दे रोमनाक्षरैः प्रथमवारं प्रकाशितं च । इदमेव च रोमनसंस्करणम् अस्य प्रस्तुतस्य देवनागरीसंस्करणस्याधारभूतम् । ग्रन्थोऽयं पालिभाषया विनिर्मितः सर्वथा लघुकायः । ११४ गाथामात्रमत्र संनिबद्धम् । गतयो जीवानां पञ्चैव भवन्ति, यथा—नारकाः, प्रेताः तिर्यञ्चः, मानुषाः, देवाश्च । कायवाङ्मनोभिः सम्पादितानां सुकृतदुष्कृतानां यथा इष्टानिष्टफलानि विभिन्नासु गतियोनिषु प्राप्यन्ते, तथा ग्रन्थेऽस्मिन् सरलया शोभनया च शैल्या प्रतिपादितानि सन्ति । ग्रन्थलेखकस्य नामकाला दिविषयकः कश्चनापि परिचयो नाद्यावधि प्राप्तुं शक्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org