________________
श्रीन्यायसिद्धान्तप्रवेशकन्थिका इदं रहस्यं परमं पवित्रं, श्रीमत्पदाब्जेन विनाऽन्यतोऽस्ति । न नाम दृष्टं किल दैशिकेन्द्र !, ततः प्रणामोऽस्तु सदा पदाब्जे ॥ १॥ उत्तिष्टोत्तिष्ठ भद्रं ते, जयश्चास्तु सदा तव । संसारतारिणो तारा, विदिताऽऽराधिता त्वया ॥२॥ अस्त्वेतत् । अन्यत्प्रष्टव्यं चेत् पृच्छ ।
पृच्छयते । नन्वेवं 'घटत्वेन घटो नास्ति'इत्युक्ती प्रतियोगिता कुतो न घटं विहायान्यत्र गच्छति ?, अत्रापि तृतीयान्तत्वेनावच्छेदकस्य पृथगुल्लेखस्य तुल्यत्वात् ।
पूर्वमेवेदं परिभावितं, इदमेवेदं पृच्छ सीति तत्सत्यं संवृत्तं, अस्तुच्यते । 'घटत्वेन घटो नास्ति' इति न प्रामाणिकाः प्रयुञ्जन्ते । किन्तु 'घटो नास्ति' इत्येव ।
किं कारणम् ।
तथा प्रयुज्यमाने घटत्वस्य अवच्छेदकविधया प्रतियोगीविशेषणविधया चेति निष्फलं द्वेधा भानं स्यात् । 'नीलघटत्वेन घटो नास्ति' इत्यत्र तु प्रतियोगितावच्छेदकत्वेन विशिष्टघटत्वस्य प्रतियोगिविशेषणविधया च शुद्धघटत्वस्येति न कयोश्चि[द] द्वेधा भानं, किन्तु सकृदेवेति न साम्यं परिशयम् ।
ननु विशिष्टघटत्वं शुद्धघटत्वं चैकमेवेति कृत्वा नोलघटत्वस्य प्रतियोगितावच्छेदकत्वेऽपि घटत्वस्य द्वेधा भानं दुष्परिहार्यम् ।
सत्यम् । तावताऽपि घटस्य प्रतियोगिविशेषणविधया भानं स्वरूपतोऽस्ति, अवच्छेदकविधया भानं तु स्त्रविशेषणोभूतेन नीलत्वेनेति विशेष इति न किञ्चिदनुपपन्नम् । एतेनैतावता पूर्वकालीना शङ्का गता न वा ! ।
श्रीमदनुग्रहेणेदानी सर्वथा विगतसंदेहः संवृत्तोऽहम् । ____ एवं वा ? । तर्हि अनुगमप्रकारेण विशेषरूपेण सामान्याऽभावं,समान्यरूपेण विशेषाऽभावं च वर्णय ।
- शृणुत । 'नील घटो नास्ति' इत्यस्य नीलत्व-घटत्वोभयनिष्ट(ष्ठ)प्रतियोगिताकाऽभाव इत्यर्थः । प्रतियोगितायां नीलत्व-घटत्वोभयनिष्ट(ष्ठ)त्वं च स्वावच्छेदकता पर्याप्त्यनुयोगितावच्छेदकसम्बन्धेन । एवं घटत्वेन...
किं मूकीभाव इव लक्ष्यते ? ।
अहो ! किं वक्तव्यम् ? । श्रीमद्भिः संशयार्णवान्महता यत्नेन समुद्धृतोऽसि(पि) पुनस्तत्रैव मज्जनौ। नाद) व्याकुलोभूतोऽहम् । यतो यथा दुग्धान्निवारितोऽपि मार्जारो दनि, तस्मान्निवारितो दुग्धे प्रवर्तते । तथाऽयं घट सामा.......
(एतावन्मात्र एव ग्रन्थोऽयमुपलभ्यते । अतः परं त्रुटितम् ।)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org