________________
संपा० मुनि शीलचन्द्रविजय . उच्यते । अवच्छेद्यस्य एष स्वभावः, यत् स्वावच्छेदकं परित्यज्य नान्यत्र गच्छति । प्रकृते च नीलघटाऽभावीयप्रतियोगिता अवच्छेद्या, नीलघटत्वं तु अवध्छेदकमिति नीलघटत्वं परित्यज्य पीतघटादो सा सती प्रतियोगिता कथं गच्छेत् ? किन्तु नीउघटे स्वगृहे एव व्यभिचारशङ्कयाऽवसीदति ।
नैतत्सारम् । तथा सति नीलघटत्वेन घटो नास्तीत्यभावप्रतियोगितापच्छेदकं तदेव नीलघटत्वं, तदव्यभिचारिणी प्रतियोगिता कथं स्वतन्त्रा भवितुमहतीति समानम् ।
श्रीगुरो ! मया किं कर्तव्यम् ? तत्रभवतो वाङ्नदीप्रवाहपरतन्त्रः सन्नाभिमततीरमुत्तीर्ण इति श्रीमन्त एव शरणम् ।
सत्यम् । ये किल पुरोवर्तिनः सर्व वाक्यमश्रुत्यैवाग्रेऽनुधावन्ति ते कदाचिकच्यवन्ते । इदानी मनोमात्रं देयम् । सर्व पुनरुपाद्यते । नीलघटाऽभावीयप्रतियोगितावच्छेदकं नीलघटत्वं, तेनाऽवच्छिन्ना प्रतियोगिता नो घट एवास्ति । तथा यद्यपि नीलघटत्वेन घटो नास्तीति विशेषरूपेण सामान्याऽभावोयप्रतियोगितावच्छेदकं नोलघटत्वमेव, तथापि प्रतियोगिता केवलेन घटत्वेन सइ घटमात्रे रमते, न तु स्वावच्छेदकोभूतनीलघटत्वेन सह नीलघटमात्र एकान्तं भजते ।
ननु द्वयोः प्रतयोगितयोरवच्छेदकैक्ये सति, एका स्वावच्छेदकस्याऽव्यभिचारिणी परा च व्यभिचारिणीति तत्र किं कारणम् ।
एतत्कारणं त्वयैवाऽवगन्तव्यम् । पृच्छयते । वद, एकस्य द्वे भार्ये । तत्रैकाऽव्यभिचारिणी द्वितीया तु व्यभिचारिणी भवतीत्यत्र किं कारणम् ? ।
स्वभावभेदात् तथा भवति इति चेदत्रापि स्वभावभेदं कल्पय ।
ननु तत्र जननीभेदाददृष्टभेदाद्वा स्वभावभेदं कल्पयितुं शक्यते इति चेत्, प्रकृते प्रतीतिभेदं सन्तमपि कुतो न कमलदलाक्ष ! पश्यसि ? । पश्य, नीलघटो नास्तीति प्रतीतो स्वावग्छेदकेन पाणिपोडकेन सहधर्मिणीव प्रच्छन्नैवास्ते, स्वावच्छेदकस्य तृतीयान्तत्वेनानुल्लेखात् । नीलघटत्वेन घटो नास्तिति प्रतीतौ तु पाणिपीडकस्थानाभिषिक्तं स्वावच्छेदकं तृतीय कवचनेनोलिलस्वन्ती कथं न व्यभिचरेत् ? । या हि व्यभिचारिणो सैव मर्यादामतिक्रामतीति लोके सुप्रसिद्धतरमेतत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org