________________
श्रीन्यायसिद्धान्तप्रवेशकन्थिका
सत्यं सत्यम् । बहु मधुरतरं भाषितं त्वया । परन्तु यदस्माभिर्नीलत्वस्य प्रतियोगितावच्छेदकतावच्छेदकत्वमभाणि, तत् केवल 'विशिष्टाऽभाव'पदस्याऽ. स्वर्थतामङ्गीकृत्यैवेति । किं खिन्नमना इव लक्ष्यते ? ।
प्रष्टव्यं चेदपरमपि वा पृच्छ तातोक्कमेव निःशङ्क ते पुनरपि मयाऽनुयते न प्रयासः। कालोऽतीतो न च कथमपि ब्रह्म कृत्यस्य साधाविधातीर्थे यथेष्ठ न च दुरितमथाह्यावयोमज्जतोस्तत् ॥१॥
तर्हि पृच्छयते । 'विशिष्टाऽभाव' पदस्यान्वर्थता तु तदैवोपपद्यते यदा विशिष्टनिष्ट(ठ)प्रतियोगिताकोऽभावो भवेत्, न चोपदिष्ट तथा गुरुचरणैरिति ।
विस्मृतं विस्मृतं भवता । किश्चित् स्मृतमिदानोम् । तर्हि वद ।
उच्यते । यथा घटाऽभाव इत्यस्य न घटनिष्ट(ठ)प्रतियोगिताकाऽभाव इत्यर्थः, किन्तु प्रदर्शितरीत्या घटत्वगतैकत्वनिष्ट(ठ)प्रतियोगिताकाऽभाव इति । तथा प्रकृतेऽपि नीलघटाऽभाव इत्यस्य घटत्वगतैकत्वनीलत्ववैशिष्टयोभयनिष्ट(ष्ठ)प्रतियोगिताकाऽभाव इत्यर्थः । प्रतियोगितायामुभयनिष्ट(ष्ठ)त्वं च स्वावच्छेदकपर्याप्त्यवच्छेदकत्वसम्बन्धेन । एतन्मूलक एव विशिष्टाऽभावो वैशिष्टयावच्छिन्नप्रतियोगिताको वा नोलघटाऽभावो व्यवहो(हि)यते तान्त्रिकैरिति ।
चिरं जीवतु भवान् । यतो निःशेषं सम्यगुपपादित वावई केन । किं प्राथमिकः संशयो गतो न वा ।
कस्तत्र सन्देहः ।
द्वितीये पुनरिदमवधेयम् –यदि नीलघटाऽभावोया प्रतियोगिता नीलघटे, घटत्वमात्रे च तदवच्छेदकता, तदा सामान्यरूपेण विशेषाऽभावाद्भेदो न स्यात्, प्रक्रियामेदाऽभावादिति । न च वै परोत्यं शङ्कयं घटत्वेन नीलघटो नास्ति' इत्यत्र तृतीयान्तोल्लेखस्य वैय्य(य)यंत्रसङ्गादिति । अत्रेदं पुनरिहावधेयं-यत्र 'नीलघटो नास्ति' इति प्रतीति यते तत्रैव 'घटत्वेन नीलघटो नास्ति' इति सामान्यरूपेण विशेषाभावोऽपि प्रतोयत इति न विशिष्टाऽभावादसौ पृथक्तया सिद्धान्तिभिः स्वोक्रियते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org