________________
श्रोन्यायसिद्धान्तप्रवेशकन्थिका किमरे ! 'घटत्वेतरे'त्यस्य 'घटाऽन्य' इति वा(क्वार्थः ! ।
नहि नहिं । सक(स्व)लितम् । 'घटस्वाऽन्य' इत्यर्थों भवति । सत्यम् । परन्तु तस्यापि कोऽर्थः ? । 'घटत्वभिन्नः' किं इति ? वैय्या(या)करणोऽसि, यदितरपदार्थे पृष्टे पर्यायान् वदति ?"।
नैय्या(या)यिकरीतिमनुरुध्येदानीं वदामि । 'इतर'पदस्य 'भेदवान'थः । तदै(दे)कदेशे भेदे घटत्वस्य प्रतियोगितासम्बन्धेन घटत्वपदार्थस्य घटत्वप्रतियोगिताकस्य वा भेदेनाऽन्वयः । एवं च 'घटत्वेतरस्य 'घटत्वनिष्ठप्रतियोगिताकमेदवानि'त्यर्थः । ____ एवं विचार्य वक्तव्यम् । परन्तु कथमनेन घटपटोभयाऽभावस्य वार णम् ? । तदीयप्रतियोगितायां घटत्वेतरधर्माऽवच्छिन्नस्याऽप्युभयाऽभावमादाय पटत्वेतरधर्माऽनवच्छिन्नत्वसत्वात् । किश्च 'घटो नास्ती'त्ययमभावोऽपि न घटसामान्याऽभावः स्यात् । घटत्वेऽपि घटत्वपटत्वोभयभेद सत्वात् । घटत्वमपि घटत्वेतर(रा)ज्जातमिति घटसामान्याऽभावोयप्रतियोगिताऽपि घटत्वेतरधमावच्छिन्नैव जातेति त्वं विभावय ।
___ तह:वं वदामि । 'घटत्वेतरे'त्यस्य न केवलं 'घटत्वनिष्ट(ठ)प्रतियोगिताकमेदवानित्यर्थः, येन घटत्वपटत्वोभयभेदमादायाऽपि घटत्वेघटत्वेतरत्वं सम्पादितं भवेत् । किन्तु 'घटत्वत्वावच्छि न्नप्रतियोगिता(क)मेदवान्' इत्यर्थः। तथा घटत्वपटवा(त्वो)भयमेदस्य वारणम् । एवमेव 'अनवच्छिन्न्न' इत्यस्य 'अवच्छिन्नत्वाऽवच्छिन्नप्रतियोगिताक भेदवतो' इत्यर्थः । एवंचोभयाऽभावीयप्रतियोगितायां घटत्वेतरधर्मावच्छिन्नत्वावच्छिन्नप्रतियोगिताकभेदाऽसत्त्वात्तद्वारणं पश्यामि ।
किं पश्यसि ? न किमपि । यतस्त्वं पुरोवर्तिनी(नी) पर्वतप्रायामनवस्था(स्था) नैव जानासि । पश्य, मया प्रदर्श्यते ।
भगवन् ! दृष्टा दृष्टा । घटत्वत्वावच्छिन्नत्वस्यापि पूर्ववदेव घटत्वत्वेतरानवच्छिन्नत्यादिक्रमेणार्थे क्रियमाणे सा राक्षसी भयङ्करा नर्ततीति भवदनुग्रहेणैव दृष्टा । कथमेनाममन्त्रविद्वारयेदिति मान्त्रिकैरव तत्र भवद्भिवा()रणियेति ।
भआयुष्मन् ! सूक्ष्मदृष्टयाऽवधातव्यम् । घटाऽभावीया प्रतियोगिता कुत्राऽऽस्ते ! ।
भो ! घटे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org