________________
संपा० मुनि शीलचन्द्रविजय प्रतियोगिताव छेदकं यत् पट तर विशिष्टस्य घटरूपप्रतियोगिनोऽप्रसिद्धया सप्रतियोग्यभावप्रतियोगितावच्छेदकविशिष्टाधिकरणाऽसिद्धेः ।
इदं परमवधेयम् । व्यधिकरणसम्बन्धावाच्छन्नाऽभावः सर्वसंमतः। व्यधिकरणधर्मावछिन्नाऽभावस्तु त तथा, सौदडाचार्यैरेवाऽभ्युपगमात् ।
किमेतद्रहस्यम् । अग्रे निरूपयिष्यामः । प्रकृते भावपरिचितिमात्रं कुरु । तर्हि किञ्चिदत्र प्रष्टव्यम् । सुखेन ।
दुक्तं श्रीमद्भिः 'घटो नास्ती'त्यमभावो घटसामान्याऽभावः, घटपटोभयाऽमावस्तु व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकः, न तु सामान्याऽभाव" इति । तत्रेदं सन्दिह्यते । उपयाभावोऽपि सामान्याऽभावः कुतो न भवितुमर्हति ? । घटपटोभयाऽभावस्य प्रतियोगिता घटत्वेन पटत्वेन घटपटोभयत्वेन वाऽच्छिन्नेति घटत्वावच्छिन्ना जातेति ।
स्वस्थो भव । स्मृतिपथमागच्छ । किं मयोक्तम् ! ।
सत्यं सत्यम् । 'घटोनास्ती'त्ययमभावः सामान्याऽभावः । अस्य प्रतियोगिता घटत्वरूपसामान्यधर्मेणैवावच्छिन्नेत्युक्तमासीत् । तत्र च 'एव'कारः संपातायात इत्यवधार्योपेक्षित इत्यपराद्धं, तत् क्षन्तव्यम् ।
__ नायमपराधः । अस्माकमपि तथा कदाचित(द) भवतीति तेन किम् ? । अमे वद ।
___ वदामि । योऽयं घटपटोभयाऽभावस्तदीया प्रतियोगिता न घटत्वमात्रेणावछिन्नति न घटपटोभयाऽभावो घटसामन्याऽभावः ।
साधू(धु) गृहीतम् । परमेवकारस्य निर्गलितार्थ गृह त्वा तु वद । कथं बदसीति संपश्ये ।
वमि । घटस्वेतरधर्माऽनवच्छिन्न-घटत्वावच्छिन्नप्रतियोगिताकाऽभावो घटमामान्याऽभाव इत्यस्वार्थः । तथा घटपटोभयाऽभावीयप्रतियोगिता घटत्वेतरधमेंण पटत्वेनोभयत्वेन चाऽवच्छिन्ना, न तु घटत्वेतरधर्माऽनवच्छिन्नेति न घटपटोभयाऽभावी घटमामान्याऽभाव इति ।
साधु(धु) । परन्तु 'घटत्वेतरे'त्यस्य कोऽर्थः । । वदामि । 'घटत्वे'त्यस्य 'धटान्य' इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org