________________
परम्परायां दर्शनानां ध्येयं तत्स्वरूपञ्च अत्र केचित् प्रत्यवतिष्ठन्ते
पारमार्थिकात्मतत्वदर्शनाय प्रवृत्तेषु शास्त्रेषु न्यायमीमांसायोगानां दर्शनत्वं नास्ति आत्मदर्शने तेषामनुपयोगित्वात् । इति ।
तत्रोच्यते-श्रुत्या आत्मा द्रष्टव्य इत्युक्तम्, किन्तु घटादिवदात्मतत्त्वं न दृश्यं भूत्वा सुकरं यत् सर्वेपि चक्षुषा सारल्येन पश्येयुः । अत आत्मदर्शनं प्रति श्रोतव्यः, मन्तव्यः, निदिध्यासितव्यः, इति श्रुतिरभिदधाति । तत्र आत्मा तदा श्रुत्या श्रुतो भवति, यदाऽसौ सम्यक्तया श्रुतितोऽवगम्येत । तत्र विना मीमांसां कर्मकाण्ड भेदेन विभिन्न पन्थानमभिदधती परस्परं विरोधिनोऽर्थान् च आपाततः बोधयन्ती च हा हन्त ! कथमिवात्मानं बोधयितुं समर्था भवेत् ? अतो महावाक्यार्थनिर्णयाय मीमांसा आत्मसम्बन्धिनीमाशंकामपसार्य तदर्शने साधनं भवति । सत्यप्येवं वेदवाक्यानां समन्वये प्रवृत्ता मीमांसा तत्रैव विश्राम्यति इति, यद्याग्रहः तर्हि वेदान्तोपि महावाक्यतात्पर्यनिर्णयं कृत्वाऽत्रैव विश्राम्यन्न तु कामं किं तस्या आत्मदर्शनत्वेन। तत् प्रतिवेदान्तस्यान्यथासिद्धत्वस्य दुरपन्हवत्वात् । दर्शनन्तु एकाग्रता भूमिकायां स्थितेन मनसैव संभवति । अतो वेदान्तस्यापि दर्शनत्वं आत्मनो यथार्थज्ञापनाय प्रवृत्तत्वाद्वेदान्तस्य इति चेत् किमपराद्धं पूर्वमीमांसयापि, तस्यापि मीमांसात्वात् । वेदान्तेषु तात्पर्यग्राहकानि यानि प्रमाणानि उपक्रमादीन्युक्तानि तान्येव पूर्वमीमांसायामपि स्फुटीकृतानि । अतो पूर्वमीमांसाया अपि वेदान्तवत् दर्शनत्वं क्लुप्तमेव । भथ न्यायस्य दर्शनत्वविषये उच्यते ।
वेदान्तेन तेन ब्रह्मविचारे करणीये अध्यात्मज्ञानं आत्मानात्मविवेककर्तव्यः इति उक्तम् पूज्याचार्यपादैः। सहैव तेन इहामुत्रार्थफलभोगः समादिसाधनसंपत्तिः मुमुक्षुत्वं चापेक्षते इत्यपि च निर्णीतं तत्र तत्र। एतञ्चतुष्टये विवेकः आत्मा इतरभिन्नः विजातीयस्वभावात् इत्यादिरीत्या अनुमितिराप्तव्या भवति । सेयमनुमितिः पुनरपि शंकोदये अप्रामाण्यज्ञानास्कन्दिता भवेत् । मननं चानुमाने तर्कपद्धत्या निर्दोषत्वेन साधितमनुमाने अन्तर्भवति इति अनुमानप्रयोगार्थं प्रवृत्तं न्यायशास्त्रं कथमिव दर्शनं न भवेत् ? एवमेव शुगेनात्मानमन्विच्छेत् इत्यादौ आत्मज्ञानं प्रति न्यायस्याङ्गत्वं तृतीयया विदधतीं श्रुति कथं अप्रमाणत्वेन को वा मन्येत । अतो न्यायस्यापि दर्शनत्वं साधु।
योगोऽपि दर्शनान्नातिरिच्यते। चित्तवृत्तिनिरोधमन्तरा मनसः आत्मदर्शनं प्रति अहेतुत्वात् । अतो मनोनिष्ठकारणतावच्छेदकं चित्तवृत्तिनिरोधोऽपि गोनिष्ठकाहायनीत्वादिवत् कारणमेव । यद्यपि विना प्रयत्नं जन्मसंबन्धमात्रादेव शुकादेः ध्यानेन आत्मदर्शनं क्लृप्तं तथापि ध्यानार्थः आदौ जन्मान्तरे एव शुकदेवादिना ध्यातं आत्म
परिसंवाद-३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org