________________
परम्परायां दर्शनानां ध्येयं तत्स्वरूपञ्च न्यायादिषट्सु शास्त्रेष्वेव दर्शनव्यवहारः क्लुप्तः तथापि सोऽयं व्यवहारः तस्मिन् समये अनुगुणो भवति यत्र राजा शासनेन वर्णाश्रमान् स्वे स्वे कर्मणि प्रेरयति, एतेपि एकान्तसेविनो वानप्रस्थादयः आत्मतत्त्वविचारे निमग्नाः आत्मानं कृतार्थंयन्ति । किन्तु यदा राजा तथा नास्ति, तदा लोकस्य व्यावहारिकस्यापि स्थितये दर्शनानि अपेक्षन्ते, तानि राजशास्त्रादीनि । तथा चायं निष्कर्षः परमार्थसत्यत्वे व्यवस्थितस्य सूक्ष्ममितरैरपरिचितचरं एकाग्रे मनसा निःशंकताया आत्मतत्वं येन द्वारेण वेदान् विचार्य दृश्यते, तत् दर्शनम् अन्यत् तदपि भवितुमर्हति यच् चक्षुः स्थानीयं व्यावहारिक सूक्ष्ममपरैरपरिचितचरं ज्ञाप्यते तच्च । इत्थं च वा उभयविधसत्यभेदेन दर्शनमुभयविधं भवति । एतेषु यैः किल दर्शनत्वं नोक्तं न तदवोधविष्टाभिमम् । किन्तु पारमार्थितत्वदिदृस्णां सिद्धान्तानुसारेण वेदोपनिषत् प्रामाण्यानुरोधात् तैर्मनीषिभिः जगतः त्रिकालाबाध्यत्वं न स्वीक्रियते, अतः जगदन्तःपातीनि तत्तत्तत्वप्रतिपादकानि शास्त्राणि न दर्शनेषु संगृह्यन्ते इति कृत्वा ब्रह्मतत्वविवेकार्थं प्रवृत्तानि शास्त्राणि साक्षात्परंपरया ( अवच्छेदक ) वा परमाथिकवस्तुप्रतिपादिकान्येव संकोच्य दर्शनभावेन संगृहोतानिवर्तन्ते। तानि च षडितिपूर्वमुक्तान्येव। राजाभावे न्यायाद्यतिरिक्तशास्त्राणां वर्णाश्रमिभिरपि चिन्तनीयत्वात् दर्शनत्वेन संग्रह कृतः। तस्य कारणं कामन्दकीयं वचः।
__ अथैतदनुरोधेन कस्य वेदार्थस्य संस्थापनाय कीदृशं शास्त्रं प्रवृत्तमित्युच्यते वेदेन स्वाभीप्सितराजस्य स्वरूपं यादृशं प्रदर्शयितुमभिधीयते तादृशं जनपदे स्तेनाभावः पुंश्चलोनामभावः इति । तदिदं ध्येयं साधयितुं प्रयतते कश्चिन्मनुष्यः तदा तदितिकर्तव्यता परिचयाय सात्विकतामैत्री निरभिमानितादिप्रकाशकं संघकारकं मित्रभावेन परस्परसाहाय्यसंपादकं राजशास्त्रं प्रवृत्तं भवति । अत्र सर्वाणि विधानानि प्रत्यक्षपरोक्षागमसिद्धहितसाधनानि वतन्ते सोयं नियमः दृष्टशास्त्रेषु सर्वेष्वप्यनुसन्धेयः। अथ व्याकरणमधिकृत्योच्यते। 'नापभाषितवै, साधून प्रयुंजीत, नामरूपे व्याकरवाणि । इत्युक्तं श्रुत्या। ततः के साधवः इत्याकांक्षोदेति तन्निरासाय व्याकरणं प्रकाशितं पाणिनिना। तत्तु १. दर्शनं शास्त्रमिति मेदिनि-७३
शास्त्रं तु षड्विधम्-वैशेषिक-न्याय-मीमांसा-सांख्यपातञ्जलवेदान्तरूपम् । एतानि तस्वज्ञनार्थ
वेदान् विचार्य कणाद-गौतम-जैमिनि-पतंजलि-वेदव्यासाख्यैः मुनिषटकैः कृतानि-शब्दकल्पद्रुम । २. दर्शनात्तस्य सुदृशो विद्यानां पारदृश्वनः ।
राजविद्याप्रियतया संक्षिप्तग्रन्थमर्थवत् ॥ ३. न मे स्तेनो जनपदे न कदर्यो न मद्यपः ।
नानाहिताग्नि यज्वा न स्वेरी स्वैरिणी कुतः॥
परिसंवाद-३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org