________________
भारतीय चिन्तन की परम्परा में नवीन सम्भावनाएँ
गुणवत्वनियामकं वक्तव्यं भवति । गुणवत्सु अनेकेषु उपस्थितेषु विनिगमनाविरहे पुनरपि नीति कार्यानुशासने एकार्थाभिनिवेशित्वं आपद्येत । अतः शास्त्रेषु कुलीनत्वं विनिगमकं मन्यते । कुलीनेष्वपि द्वित्रेषु उपस्थितेषु सत्सु राज्याधिकारे ज्येष्ठत्वं नियामकं भवति । उक्तं च इदं मानसरामायणे
३४६
विमलबंश यह अनुचित एकू । बंधु बिहाइ बड़ेहि अभिषेकू ॥
गुण्यगुणिसाधारण्येन तु मानवसमाजे समानधर्मंमादाय नीतौ आहार न्याय-दान-पररक्षणप्रभृतितत्त्वानि समान्येव निरूपितानि सन्ति शास्त्रेषु । अतः समाजे व्यवस्थामनुरुद्ध गुणानुरोधेन बौद्धिकं सामाजिकार्थिकभेदेन असमता गुणभूता न समतामनुरुद्धय विलोपयितुमर्हा, एकार्थाभिनिवेशित्वदोषस्यापरिहर्तुं तदैव शक्यत्वात् । प्रतिभानविषया सर्वेस्मिन् समाजे अनुस्यूता अहन्ताऽपि न कथमपि विषमतया उपेक्षणीयतां अर्हति । अत्रेदं अवधेयम्, विभिन्नेषु भारतीयदर्शनेषु समतायाः स्वरूपं पृथक् पृथक् अस्ति इति प्राक् प्रदर्शितमेव । तेषु औपनिषदं मतं विहाय दर्शनभेदेन क्वचित् जडत्वं कश्चिदानन्दत्वम् इत्यादि रूपेण समतायां न्यूनत्वं एको दोषो भाति तथा समता दृष्टानुबन्धिनीं अधिकृत्य प्रवृत्ते भारतीयं अवैदिकं दर्शनं सामाजिकेषु अहमहमिकयां एकार्थाभिनिवेशित्वाधायकं अरिभावसम्बर्धकम् इति द्वितीयो दोषो भवति व्यक्तीनामनियमनात् । वैदिकदर्शनेष्वपि जडत्वं अनानन्दतापादकं यत् तदपि तत्त्वादेव अरुच्यापादकं भवति, तथापि औपनिषदत्वावबोधानुगुण्येन पूर्वोत्तरपक्षाभ्यां विभज्य साक्षात्परम्परया परमानन्दप्रकाशकत्वं मन्येत चेत् सर्वं सुगृहीतं मन्तव्यम् । किञ्च द्वैतवादे समताया: विषमतायाश्च स्वरूपं कीदृशं भवितुमर्हति इति प्रश्नस्य समाधानं मानसरामायणे एतद् प्रतिपादितम् —
'गिरा अर्थ जलवीचिसम कहियत भिन्न न भिन्न' इति ।
यथा तत् तत् देशेषु पूजिता रामस्य मूर्तिः समाना सत्यपि वेषादिभेदेन स्वस्वदेशीयत्वादिवैलक्षण्ये असमत्वापादिकापि अनुगुणैव भवति । तथा द्वैतवादे उपासनादिभेदेन विषमतायां उपासकः स्वीकृतायामपि अपौरुषेय - एकवेदसिद्धान्तानुयायित्वरूपा समतैव अस्ति इति ।
भारतीयदर्शनेषु समतायाः असमतायाश्च यन्निरूपणं उपलभ्यते तत् प्रमाणसिद्धत्वात् नोपेक्षणीयतामर्हति । इति इमां सर्वविधां अपि समतां विषमतां वा बोधयितुं भारते दर्शनानां अपेक्षा वर्तते ।
तान्येव आधारीकृत्य गुणवत्वपरिचयस्य शक्यत्वात् । एवंरीत्या व्यावहारिकी पारमार्थिकी च समता दर्शनमूलिका इति सिद्धम् ।
परिसंवाद - २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org