________________
व्यावहारिक परमार्थिकदृष्टया समता विषमता च
३४५ भेदस्थिति प्राप्ताः सामाजिकी समता स्थितेविघटने कारणान्येव सम्भवन्ति । इदं गुणविभाजनमूलम् असमानत्वम्, बौद्धिकादिभेदेन विभक्तं तत्-तत्-कार्यसाधनेष उपादित्सितं सत् अहंभावापन्नसमाजस्य समृद्धये सम्भवति । फलरसादिलाभेन सर्वस्य समाजस्य पोषणात् ।
___यत्तु भारतीयदर्शनेषु समतामधिकृत्य उच्यते-चत्वारि भूतान्येव इति चार्वाकाः । चक्षुरादीनि प्रत्येकमपरे, मिलितानि इति अन्ये, मन इत्येके, प्राण इत्यपरे, क्षणिक विज्ञानमिति सुगताः; शून्यम् इति माध्यमिकाः, देहेन्द्रियातिरिक्तदेहपरिमाणे इति दिगम्बराः, कर्ता भोक्ता जड: विभुः इति वैशेषिकताकिकाः, जडो बोधात्मकः इति भाट्टाः, मुक्तौ केवलं बोधात्मकः इति सांख्याःपातञ्जलाः, अविद्यया कर्तृत्वादिभाक परमार्थतः निर्धर्मकः परमानन्दबोध इति औपनिषदाः, इति । सातु पारमार्थिकी समतां मत्वा उक्ता सेऽयं अध्यात्ममधिकृत्य भारतीयदर्शनेषु पारमार्थिकी समता निरूपिता।
व्यावहारिकी सामाजिकी समता तु अहन्त्वेन भावविषया प्रत्यभिज्ञादर्शनोक्ता, सर्वेषु अनुस्यूता सा चैवंविधा समता विरोधिभेदभावभावनाशून्यां चित्रदर्शनादौ सिद्धां आयुर्वेदीयं चिकित्साविशेषानुगता उपासिकैरनुमता व्यावहारिकी वर्तते । अनयोः उभयोः समतयोः फलं त्रिवर्गसमृद्धिः तथाहि-तत्राहन्त्वस्य सर्वत्रभावे पक्षपातराहित्यं परकीयसुखदुःखसम्वेदनम् अविकृतिमत्वम् अप्रतारणत्वं न्यायान्यायविवेचनादि च सम्भवति । तथाविध अहन्त्वभानं कामयमानानां संसारत्यागेन सुखं आत्मरतौ एव तुष्टिः इत्यादिविषयानां व्यावहारिकत्वप्रदर्शनाय उदाहृतिरूपेण आध्यात्मिकसमताभानशीलापि महायोगिनोऽपेक्ष्यन्ते इति, उभयोः अपि समतयोः त्रिवर्गसमृद्धिः भवति । उभयसाधनञ्च सामाजिकेषु उल्लसिता उत्साहप्रतिबद्धा सात्विकता व्यसनित्वानापादिनी मन्यते नीतिविद्भिः। सत्यप्येवं भारतीयदर्शनेषु पार्थक्येन कर्माणि स्थिरतया विभज्य कर्मवादः चिन्तितः, तत्र कारणम्, इदमेव यत् अहन्त्वेन भानेऽपि जीवे परिमितप्रमातृतादशाया अपि अपरिहरणीयत्वात् स्व स्व जीविकार्थं प्रवृत्तेषु यदा एकमेवार्थमधिकृत्य सामाजिकाः प्रवर्तन्ते, तदा एकार्थाभिनिवेशित्वप्रयुक्तो विरोधः तेषु समुदेति, तत् प्रशमनाय गुणसम्पत्ति अनुरुद्धय विषमतया कर्मवादोऽपि भारतीयैः चिन्तितः। अतः तत्तत्द्दर्शनेषु सामाजिकी विषमतापि विभक्ता निरूपिता वर्तते।
___ अत्र भारतीयकर्मवादसिद्धान्ते सामाजिकसमताविषये प्रधानः अत्राऽयं प्रश्नःकर्मवादे भारतीयैः तदुत्पन्नस्य कुलीनस्य कृते विभिन्नधर्माधिकाराभिधानान् मानवसमाजे विषमतायाः प्रसारात् समाजे विभेदः अपरिहरणीय आपद्येत, तन्न, कर्मवादे समतामधिकृत्य येन केनापि यत् किञ्चिदपि इष्टं तत् कर्तव्यं इति स्वीकारे गुणवताऽपि शासनपदं अधिष्ठाय शास्येत, इष्टापत्तो तत् असम्भवि । अतः तद् तद् पदाधिष्ठाने
परिसंवाद-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org