________________
३२८
भारतीय चिन्तन की परम्परा में नवीन सम्भावनाएँ गुरुरित्येषा मनीषा मम" इति 'शुनि चैव श्वपाके च पण्डिताः समदर्शिनः' इति गीतावाक्यं व्याकुर्वाणाः श्रीशङ्कराचार्याः यथाश्रुतार्थे दोषद्वयमपश्यन् (१) शुनः मनुष्यस्य च कथं साम्यम्, (२) अपि च समासमाभ्यां विषमसमे पूजातः पतति इति गौतमधर्मविरुद्धमिदं वचनं भगवतः, 'ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप । कर्माणि प्रविभक्तानि' इति स्ववचनविरुद्धञ्चेति मत्वा समदर्शिनः इत्यस्त्र ब्रह्मासमशब्दार्थः । समशिनः ब्रह्मशिनः इति व्याचक्रुः । इदानीमपि नराणां श्वानसाम्यं नाभ्युपगच्छन्ति साम्यवादिनोऽपि ।
तर्कशास्त्रे-जगदेव दुःखनिमग्नमुद्दिधीर्घः भगवान् गौतमः आन्वीक्षिकी प्रणिनायेति तत्त्वचिन्तामणि व्याकुर्वन्तः दीधितिकाराः शूद्राणामधिकारिजन्मप्राप्त्या उद्धरिष्यमाणतेति व्याचक्रुः । 'शमायशास्त्रं जगतो जगाद' इति न्यायवार्तिकं व्याकुर्वन्तः वाचस्पतिमिश्राः अनधिकारिभिः एतच्छास्त्रपठनेन यद्यपि ऋषेः पापं भवति तथापि तत् तदीय तपसा निवर्तत-इत्यूचुः । एतत्सर्वमिदानी सर्वकारशासनेन दूरीकृतम् ।
___ मीमांसाशास्त्रं तु वेदार्थनिर्णयपरं यो वेदार्थमनुतिष्ठति तस्योपयोगाय । इदानीं तु वेदोक्तयागादीनि न कश्चित्करोति द्विजोऽपि ।
__ योगशास्त्रं वर्णाश्रमविशेषं परित्यज्य मनुष्यमात्राधिकारं प्रतोयते । तत्रोक्तः प्रणवजपस्तु सन्यासिभिः कार्य-इति विशेषः ।
व्याकरणं शब्दसाधुत्वमात्रपर्यवसितम् ।
वर्णाश्रमव्यवस्थासद्भावकालेऽपि जनानां साम्यं उत्कर्षापकर्षाद्यभावरूपमङ्गीकृतमित्येव वक्तव्यम्, तद्यथा मीमांसका आहुः-यागे अध्वर्यः प्रधानो ऋत्विक । स यदा 'यज' इति वदति तदा होत्रा याज्या मन्त्रः पठनीयः । 'अनुब्रूहि' इति यदा आज्ञासदृशं वाक्यं प्रयुङ्क्ते, तदा होत्रा पुरोनुवाक्या मन्त्रः पठनीयः । एवं व्यवस्थायां सत्यामपि न होता अध्वर्योः भृत्यः' “गुणानां च परार्थत्वादसम्बन्धः समत्वात् स्यात्" इति न्यायेन उभयोरपि यजमानेन दक्षिणया क्रीतत्वात् उभावपि यजमानपरतन्त्रौ । 'यज' 'अनुबहि' इत्यादौ लोट प्राप्तकाले द्रष्टव्यः । याज्यायाः पठनकालः प्राप्तः इत्यर्थः, न तु नियोगपरत्वमिति । एवमेव सर्वैः स्वस्वधर्माचरणे ईश्वराख्यो वेद एव प्रमाणम्, न तु जनेषु उत्कर्षापकर्षभावः। लोकेऽपि राज्यशासकः मन्त्री वर्तते, स च बहूनामधिकारिणामुपरि वर्तते, तेषां कार्याणि प्रत्यवेक्षते । न च तावता एते अधिकारिण: तभृत्या भवेयुः, उभयेषां राज्यशासनपरतन्त्रत्वात् ।।
___ एतेनेदं व्यक्तं यदस्मन्मते समतावादः न केवलं वेद एव वर्तते । अपि तु लोकव्यवहारेऽपि अयं वर्तत एवेति ।
परिसंवाद-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org