________________
वैदिकदर्शनदृष्ट्या समतायाः सूचनम्
आचार्य पं० सुब्रह्मण्यशास्त्री आदौ भारतवर्षे समताया आविर्भावः चरित्रदृष्टयाऽवलोकनीयः । तथाहिमन्वादिस्मृतिषु भारतरामायणादिषु इतिहासकाव्यग्रन्थेषु च चत्वारो वर्णाः स्वस्वाश्रमविहितं कर्म कुर्युरिति विधिमनुसृत्य सर्वे जनाः स्वधर्मरता आसन् । राजानश्च जनान् निर्बन्धेन स्वधर्ममनुष्ठाप्य निर्वृता आसन् । एवं काले गच्छति नराणां कामक्रोधायुद्भवात् क्वचित्क्वचित् शूद्रेण तपश्चरणं ब्राह्मणेन द्रोणादिना युद्धाचरणमित्यादिधर्मशास्त्रविरुद्धमनुष्ठातुं प्रवृत्तम् । ततः गौतमबुद्धेन ब्राह्मणैरेव उपदेष्टव्यं क्षत्रियादिभिः तदुक्तं ग्राह्यं नोपदेष्टव्यं इति निर्बन्धमसहमानेन वेदोक्तान् काँश्चिद्धर्मान् उपनिषदुक्तानि तत्त्वानि चावलम्ब्य स्वयं वर्णाश्रमादिरहितं सर्वजनसाधारणं मतं जनेषु प्रचारितमासीत् ।' तत्तु कुमारिलशङ्करादिभिः वैदिकश्रेष्ठैः पराकृतं द्वीपान्तरेषु बहुसमुपलभ्यते, एवमेव जैनादिमतान्यपि ।
यवनानां राज्यकाले यवनधर्माः प्रचारिता अपि निर्बन्धेनैव जनानां मतान्तरप्रवेशः कारितः।
ततः आङ्गलेयाः यदा क्रमेण सम्पूर्णभारतमाक्रम्य शासितुं प्रवृत्ताः, तदा तेन स्वदेशरीत्या सर्वजनसाधारणा एव धर्माः शासनेन स्थिरीकृताः। वर्णभेदो न शासने अङ्गीकृतः। तथा च अपराधेषु सर्वेजनाः समानदण्डार्हाः, न विशेषस्तेषु गणनीयः, ब्राह्मणस्यापि महापराधे शारीरदण्डः मरणावधि कर्तव्य एवेति निरधाश्यत् । अत एव सर्वेषां जनानां धूमशकटतैलशकटादिषु भक्ष्यभोज्यादिविक्रयशालासु चं समानः प्रवेशः, उद्योगेषु सम्मानना चेति निर्विशङ्ख समाज्ञापयत् । परं तु देवमन्दिरे स न प्रविष्टः । संस्कृतपाठशालासु सर्वकारैः पोष्यमाणासु सर्वेषां सममेवाध्ययनमध्यापनं चेत्यूरीचकार ।
स्वराज्यप्राप्त्यनन्तरं तु देवालयेषु स्नानघट्टेषु च हरिजनानां गिरिजनानां च प्रवेशः पूजाधिकारश्चाङ्गीकृतः । अतएवेदानीं सर्वत्र जनानां साम्यं विद्यत एवेति न साम्यसिद्धये शास्त्रसम्मतिः अन्वेषणीया । दर्शनविषये समतावादः - सर्वाणि दर्शनानि सर्वेषां जनानां प्रवेशयोग्यान्येव वर्तन्ते । वेदान्तः तत्त्वज्ञानफलः, तत्त्वज्ञानं च निरतिशयसुखात्मकमोक्षसाधनत्वात् सर्वेषां कामनाविषयः, तत्त्वज्ञानी तु सर्वैरेव पूजनीयः। तदुक्तं शङ्कराचार्यः "चण्डालोऽस्तु स तु द्विजोऽस्तु १. तदुक्तं महेन्द्रवर्मणा राज्ञा सप्तमशतके काञ्च्यां शासनं कुर्वता:
वेदान्तेभ्यो गृहीत्वार्थान् यो महाभारतादपि । विप्राणां मिबतामेव कृतवान् कोशसंचयम् ॥ (मत्तविलासे)
परिसंवाद-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org