________________
१९८
भारतीय चिन्तन की परम्परा में नवीन सम्भावनाएं प्रतिज्ञाकरणं विधाय भिक्षवः स्वीयं व्यक्तित्वं शोधयन्ति स्म । सर्वान्ते च अत्यर्थं विशुद्धेभ्यस्तेभ्यो भिक्षुभ्यः उपासकैः गृहस्थैः आनीतानि जीवनोपयोगीनि वस्तूनि वितीर्यन्ते स्म । अयं प्रवारणायाः उत्सवः प्रति पञ्चमे वर्षे यया परिषदा समायोज्यते स्म, सा पञ्चवार्षिकी परिषदिति नाम्ना बुद्धजगति प्रसिद्धिमभजत् । इयं परिषत् कदाचित् 'खाश' नाम्ना विख्यातेन राज्ञापि समाकारिता आसीत् । तत्र च तेन राज्ञाऽपि स्वीयं सर्वस्वं समष्टये वितीर्य इदं निदर्शनम् उपस्थापितं यद् कीदशो राजा प्रजानुरञ्जने समर्थो भवतीति । ह्वेनत्साङ्गः अपि कूचायां वामियाने चामुम् उत्सवम् अवालोकयत् । कदाचित् चीनदेशस्य महाराजोऽपि पञ्चवार्षिकीम् इमां परिषदं निमन्त्रयामास ।
प्रसङ्गश्वायं स्पष्टयति-संग्रहः, परोक्षे निषिद्धाचरणं प्रत्यक्षे चात्मनः समक्त्वप्रकाशनं च विघटनस्य भेदबुद्धेर्वा मूलं कारणम् । इदमेव सर्व यदि नानुष्ठीयते कदाचिद् बलात् अनिच्छया अनुष्ठीयतापि परं काले काले यदि संग्रहः वितीर्यते निषिद्धाचरणं च प्रकाश्यते त्यज्यते चेद् व्यष्टि-समष्टयोः प्रशस्ततरमसम्बन्धस्थापनपुरःसरं तयोः विकासः अपरिहार्यः ।
यद्यपीदं सर्वमन्यत्रापि धार्मिकवाङ्मये समुपलभ्यते, परं समूहे स्वीयपापप्रकाशनपुरःसरं व्यक्तित्वसंशोधनप्रकारः कार्यरूपेण परिणतः भगवतो बुद्धस्य चरित्रे समुपलभ्यमानः पाखण्डात् प्रमादाच्चास्मान् रक्षितुं बद्धपरिकरस्य भगवतो बुद्धस्यानितरसाधारणं वैशिष्टयम् अवद्योतयति । प्रकारममुम् अनुष्ठातुं यादृग् विशालं व्यक्तित्वमपेक्ष्यते तस्य निर्माणाय भगवतो बुद्धस्यादर्शाः नूनमस्माभिः समादरणीया इति विशेषतः अवधानविषयः।
__ मम तु इदमेव प्रतीयते-भगवान् बुद्धः नूनं समष्टिमेव सर्वस्वं मनुते। तस्य कल्पनायां व्यक्तित्वं सङ्कोचशालि, परं तद् व्यापकं सत् करुणायै उपयुज्यत एव। तस्य व्यापकत्वं हि समष्टौ व्यक्तित्वस्य विलयेनैव सम्भाव्यते । एतेन हि समष्टिभावना एवान्तिमं लक्ष्य बुद्धदर्शनस्य इति स्पष्टं भवति । अन्यत्र हि अस्माकं वाङ्मये वेदान्तादिषु समुपलभ्यमानानां तत्त्वचिन्तकानां कल्पनायां व्यक्तित्वमेव स्वभावतः अतीव व्यापकम् आकस्मिककारणवशेनैव तत् सङ्कचति । तस्य हि आकस्मिककारणस्य निरासपूरःसरं व्यक्तित्वं स्वाभाविके स्वीये रूपे प्रतिष्ठाप्यते चेत् पृथक् समष्टेः अस्तित्वम् अलीकमेव भवति । तेन हि व्यक्ति एव सर्वस्वमिति स्पष्टं जायते।
उभयविधायां दृष्टौ मूलभूतं तथ्यमेकम् । विश्वशान्त्यै सङ्कोचभाव अन्तरायः, व्यापकता विशालता वा अनिवार्य तत्त्वम् इति । व्यष्टिः समष्टियं भवतु प्रधानं, तस्या सङ्कोचो मास्तु । तस्याः विशालतमत्वं सम्पादयितुं यत्नाः अनुष्ठेयाः। तेन हि नूनं यथापेक्षं सुखं शान्तिञ्चासाद्य समग्रं जगत् स्वस्थं भविष्यतीति यथामति निवेद्य विरमामि ।
परिसंवाद-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org