________________
१९७
दुद्धदृष्टौ समष्टिः बुद्धस्य समष्टिसंशोधनपद्धतिः
बुद्धः परमकल्याणस्य बहून् उपायान् संकेतयन् स्वर्गं कामयमानान् गृहस्थान प्रति शीलं शिक्षयितुं प्रथमतस्त्रिशरणगमनविधि संकेतयति-'बुद्धं शरणं गच्छामि, धर्म शरणं गच्छामि, सद्धं शरणं गच्छामी'ति । अत्र त्रिरत्ने प्रथमं रत्नं व्यप्टेः शरणं प्रति गमनमेव; तदेव सम्भवदुक्तिकमपि। इदमन्यद् यत् सैव व्यक्तिः शरणीकर्तुं शक्यते या स्वीयं व्यक्तित्वं समष्टौ विलापयति । अत एवात्र 'बुद्धं शरणं गच्छामी'त्युच्यते न तु व्यक्ति शरणं गच्छामीति । अनन्तरं 'धर्मं शरणं गच्छामी'ति द्वितीयं रत्नम् । इदं हि 'सङ्घ शरण गच्छामी'ति तृतीयरत्नस्य पूर्व निर्दिष्टमस्ति । अत्र 'धर्म' इत्यनेन बुद्धत्वावायै उपयुक्ता एव धर्मा इष्टा इति नूनं मन्तव्यम्; तेनेदं सुस्पष्टम्, यद् व्यष्टि-समष्टयोः मध्ये सुदृढे फलाधायकं सम्पर्कसूत्रं बुद्धकारकधर्म एव; तस्य शरणं गतः समष्टेः शरणं स्वभावतो गच्छत्येव । समष्टिं प्रति गमनं नाम तस्यामात्मनः समर्पणमेव, तदेव च बुद्धदृष्ट्या मुख्य लक्ष्यम् ।
अस्यैव त्रिरत्नस्य कल्याणार्थम् अपेक्षितस्य यथावत् सम्पत्तये पञ्चशीलमपि गृहस्थम् प्रत्युपदिश्यते। तच्च-१. प्राणातिपातविरतिः, २. अदत्तादानविरतिः, ३. कामनियमाचारविरतिः, ४. मृषावादविरतिः, ५. सुरामैरयप्रमादस्थानविरतिः इति ।
एवमेव प्राचीनेषु पालिसाहित्येषु ब्रह्मविहारनाम्ना चतस्रो वृत्तयः मैत्री-करुणामुदितोपेक्षारूपाः प्रसिद्धाः सन्ति । नूनमासां वृत्तीनां व्यष्टि-समष्टयोः मध्ये अपेक्षितस्य प्रशस्ततमस्य स्पृहणीयस्य सम्बन्धस्य स्थापने तयो सम्पुष्टौ विकासे चानितरसाधारणः उपयोगः विद्यते । येन व्यष्टिसंशोधनपुरःसरं समष्टिगतसुव्यवस्थाया एको विशिष्टः प्रकारः अनितरसाधारणः भगवता बुद्धेन स्वीकृतः प्रसङ्गान्तरेण स्पष्टो भवति । प्रसङ्गश्वायम् चारिकायाः वर्षावासस्य प्रवारणायाश्च विद्यते। भगवान् बुद्धः भिक्षुभिः सार्ध चारिकाम् अनुतिष्ठति स्म । तत्र भिक्षूणां सन्देहजातं निवारयन् सः तेभ्यो नियमान् अशिक्षयत् । गृहस्थान् प्रत्यपि प्रश्नप्रतिवचनपूर्वकं धर्मान् निरदिशत् । वर्षौ केनचन उपासकेन वर्षावासार्थं निमन्त्रितास्ते भिक्षवः चारिकाम् इमाम् अवरोध्य एकत्र अवतिष्ठन्ते स्म । उपासका गृहस्थास्तत्र तेषां भिक्षादिकं व्यवस्थापयन्ति स्म, भिक्षवश्व तेभ्यो धर्मान् उपदिशन्ति स्म। एवं व्यष्टि-समष्टयोः सम्बन्धान् द्रढ़यन् भगवान्बुद्धः तयोः विकासस्य प्रशस्तं मार्ग परिष्कारयामास ।
वर्षाः पर्यवसाने तत्र एकः समुत्सवः समायोज्यते स्म । तत्र समवेतान् समान् भिक्षून उपासकांश्च एको भिक्षुः धर्मोपदेशेन अनुगृह्णाति स्म । तस्मिन् हि उपदेशदिने सर्वेऽपि उपोषिता एवाविद्यन्त । अनन्तरं सायम् एक विशिष्टं सम्मेलनं समायोज्य तत्र परस्परं पापप्रकाशनम्, तस्य स्वीकरणम्, तादृशस्य पापस्य पुनः अननुष्ठानादि
परिसंवाद-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org