________________
१९४
भारतीय चिन्तन की परम्परा में नवीन सम्भावनाएं एकतस्तु आत्मनो व्यक्तित्वं समष्टयात्मकं सम्पाद्य तिष्ठति अन्यथा स्वाभाविक्याः समष्टिकल्याणभावनाया एवासम्भवात्, अन्यतश्च प्रतिक्षणं तथा प्रयतते येन तस्य स्कन्धनिवृत्तिः शीघ्र न स्यात्, स्कन्धनिवृत्तौ सत्यां समष्टिसेवाया अवसरस्य लब्धुमशक्यत्वात् । इदमेव बुद्धस्य बुद्धत्वम् असाधारण्यं च ।
___ इमामेव परमस्पृहणीयां समष्टिकल्याणभावनाम् आलक्ष्य बौद्धा योगिनः तादृशं बैन्दवं सिद्ध वा देहं कामयन्ते, यः प्राकृतनियमानां शृङ्खलया न बद्धयते, नापि मृत्युना ग्रस्यते । अत एव तं देहमाश्रित्य यथाकामं यत्र कुत्रापि विचरन्तस्ते सुदीर्घकालं यावत् समष्टिकल्याणसम्पादने समर्थाः भवन्ति । अमुं देहविशेषं तदैव बौद्धयोगी सङ्कोचयति यदा समष्टिगतानां तृष्णानाम् अशेषक्षयं सम्पाद्य ताञ्च समष्टिं महानिर्वाणपथे महापरिनिर्वाणपथे वा सुदृढं संयोज्य सिद्धप्रयोजनो भवति ।
इयं हि समष्टिकल्याणवासना यया करुणया सम्भवति सा हि साध्यकरुणारूपेण बुद्धजगति प्रथिता विद्यते, बुद्धदृष्टौ अस्या एव करुणाया चरमलक्ष्यत्वात् । इयमेव करुणा तत्र भवति भगवति बुद्धे प्रमाणमिति धर्मकीर्तिः प्रमाणवात्तिके स्पष्टयति'करुणावत्त्वात् भगवान् प्रमाणमिति'।
अस्या एव 'दुःखाद् दुःखहेतोश्च समुद्धरणकामता करुणा' इति रूपेण मनोरथनन्दिः स्वरूपं वर्णयति । इयं करुणा समष्टिगतदुःखसन्तानसंस्पर्शमात्रेण समुदेति । अतएव धर्मकीतिः प्रतिपादयति
"दुःखसन्तानसंस्पर्शमात्रेणैव दयोदयः" इति । दुःखेषु सम्मुखं प्रस्तुतेषु सत्सु तेषामेव महापुरुषाणां हृदि करुणेयम् उत्पद्यते, ये नैरात्म्यदर्शनस्वभावाः सन्ति, आत्मदृष्टरेव मोहं प्रति मूलकारणत्वात्, मोहस्य द्वेषं प्रति, द्वेषस्य च दुःखं प्रति कारणत्वस्य सुस्पष्टत्वाच्च । स्वभावतः नैरात्म्यदर्शने सुप्रतिष्ठिते कश्चन् माम् अपकरिष्यतीति भ्रमस्य अभावः स्वाभाविकः, तेन च द्वेषाभावः स्वतःसिद्धः, ततश्च अशेषदुःखोच्छेद अपरिहार्यः । एतेनेदम् स्पष्टम्-इयं साध्यभूता करुणा दोषाणां मूलकारणभूतायाः आत्मदृष्टेः अभावेन दुःखसन्तानस्पर्शमात्रेण च जायमाना न सत्त्वानुरोधिनी किन्तु करुणाविषयस्य दुःखात्मकस्य वस्तुनः धर्मभूता, अत एव न कदापि दोषाय भवति । यथा च धर्मकीत्तिः
"दुःखज्ञानेऽविरुद्धस्य पूर्वसंस्कारवाहिनी ।
वस्तुधर्मा दयोत्पत्तिर्न सा सत्त्वानुरोधिनी ॥” इति । एवंविधया करुणया उपेता हि महापुरुषाः, अकारणवत्सलाः उपकारसाधने एव सततं निरतचित्ताः नूनं कृपामयाः करुणामया वा। इमे हि महापुरुषाः वस्तुगत्या परिसंवाद-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org