________________
दृष्ट समष्टि:
१९३
यथा व्यष्टेः अस्तित्वं सर्वाङ्गीण विकासश्च समष्ट्यायत्ते तथैव समष्टे: अस्तित्वं सर्वाङ्गीण विकासश्वापि व्यष्ट्यायत्ते इति सर्वानुमतमेव । परस्परं सापेक्षयोः अनयोः व्यष्टि - समष्ट्योः सत्तायाः अविच्छिन्नरूपेण प्रवाहशीलत्वं समप्राधान्यं समकालभावित्वं चेति नितरां स्पष्टम्, व्यष्टेरपि मातृ-पितृसमूहात्मकसमष्टेरेव जायमानत्वात् । व्यष्टेरपि समथ्र्यात्मकत्वम्
समष्टिरपि व्यष्टि: व्यष्टिरपि समष्टिः, अनेकस्मिन्ने कोपलब्धेः एकस्मिन्ननेकोपलब्धेश्च सिद्धान्तात् । पुरो दृश्यमानेषु स्तम्भभित्त्यादिषु अनेकेषु अङ्गेषु एकमिदं भवनमुपलभ्यते, एकस्मिन् चास्मिन् भवने इमानि अनेकानि स्तम्भभित्त्यादीनि अङ्गानि उपलभ्यन्ते । वस्तुगत्या नहीदं भवनं किञ्चिदेकं वस्तु, किन्तु स्वीयानि अङ्गानि गुणविशेषांश्चाश्रित्यैव भवनमिति ख्यातिं भजते । इयमेव स्थितिः मानवात्मिकाया व्यष्टेरपि । तस्या अपि नास्ति काचन शुद्धसत्ता किन्तु मानसिकीनां भौतिकीनां च तासाम् अवस्थानां सा समुदायमात्रम्, याः उत्पाद -स्थिति-भङ्गानाम् अविच्छिन्नधारासु प्रवहमानाः सन्ति । इमा मानसिक्य अवस्था एव 'नाम' शब्देन भौतिक्यरचावस्था: 'रूप' शब्देन व्यपदिश्यन्ते । नाम्न एव तिस्रः स्थितयः वेदना, संज्ञा, संस्काररूपेण प्रसिद्धाः सन्ति । पापपुण्यादिविभिन्न प्रकारकं चित्तमेव 'विज्ञान' रूपेण प्रथितम् । आसाम् अवस्थानां समुदायस्य समुदाय एव मानवात्मिका व्यष्टिः । अयम् अवस्थानाम् समुदाय एव पञ्चस्कन्धरूपेण प्रसिद्ध: - रूपस्कन्धः, वेदनास्कन्धः, संज्ञास्कन्धः, संस्कारस्कन्धः, विज्ञानस्कन्धश्चेति । तथा हि संयुक्तनिकाये -
अस्यायमाशयः
यथा चक्रादिषु विभिन्नेषु अङ्गेषु एव रथ इति ख्यातिस्तथैव पञ्चसु स्कन्धेष्वेव व्यक्तेः ख्यातिः । एवं व्यष्टिरपि समष्टिरेवेति सुव्यक्तं भवति । तेन च परमार्थतः समष्टिरेव सर्वस्वमिति स्थिते सति समष्ट्रिकल्याणमेव बुद्धदर्शनस्य लक्ष्यमिति पर्यवस्यति ।
'यथा हि अङ्गसम्भारा होति सद्दो रथो इति । एवं खन्धेसु सन्तेसु होति सत्तोति सम्मुति 'ति ॥
समष्ट्रिकल्याणम्, बुद्धत्वम्, करुणा च
अस्याः समष्टेः कल्याणस्य वासना एव परार्थवासना । इयं हि परार्थवासना शुद्धवासना इत्युप्युच्यते । इयमेव बोधिसत्त्वस्य विशिष्टं लक्ष्यम् । अनया वासनया अनुप्राणित एव बोधिसत्त्वः क्रमशस्तद् बुद्धत्वमधिकरोति, यत्र व्यक्तित्वस्य विलयेन सार्द्धमियं शुद्धवासनापदाभिधेया परार्थवासनापरपर्याया समष्टिकल्याणभावना एव सर्वस्वं भवति । इयं समष्ट्रिकल्याणभावना बुद्धे तथा आत्मसाद् भवति यथा सः परिसंवाद २
१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org